व्यासः-
द्वन्द्वान्निर्मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः
वक्त्रा गुणवता शिष्यश्श्राव्यः पूर्वमिदं महत्
आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्
तस्य शब्दं गुणं विद्यान्मुनिश्शास्त्रविधानवित्
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान्
प्रक्लेदो द्रवता स्नेह इत्यपो ह्युपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः
सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च
श्मश्रु रोम च केशाश्च सिरा स्नायु च चर्म च
इन्द्रियं घ्राणसञ्ज्ञातं नासिकेत्यभिशब्दितम्
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः
उत्तरेषु गुणास्सन्ति सर्वे पूर्वेषु नोत्तराः
पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः
मनस्तु नवमं चैषां बुद्धिस्तु दशमी स्मृता
एकादशस्त्वन्तरात्मा स सर्वपर उच्यते
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्
कर्मानुमानाद्विज्ञेयस्स जीवः क्षेत्रसञ्ज्ञितः
एभिः कालाष्टमैर्भावैर्यस्सर्वैस्सर्वमन्वितम्
पश्यत्यकलुषो बुद्ध्या स मोहं नानुवर्तते