व्यासः-
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा नालङ्कारांश्चाप्नुयात्तस्यतस्य |
मानं च कीर्तिं च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्
ऋचो यजूंषि सामानि वेदवेदाङ्गपारगः
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान्
नैव प्राप्नोति ब्राह्मण्यमविज्ञातं कथञ्चन
ज्ञानी यस्सर्वभूतानां सर्ववित्सर्वभूतवित्
नाकाले म्रियते जातु न देवो न च ब्राह्मणः
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा
यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
कामबन्धनमेवेदं नान्यदस्तीह बन्धनम्
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते
कामतो मुच्यमानस्तु धूमाभ्रादिव चन्द्रमाः
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्
स कामकान्तो न तु कामकामस्स वै लोकं स्वर्गमुपैति देही
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषद्दानं दानस्योपनिषत्तपः
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम्
सुखस्योपनिषत्स्वर्गस्स्वर्गस्योपनिषच्छमः
क्लेदनं शोकमनसोस्सन्तीर्णस्तृष्णया सह
सत्वमृच्छति सन्तोषाच्छान्तिलक्षणमुत्तमम्
विशोको निर्ममश्शान्तः प्रशान्तात्माऽत्मविच्छुचिः
षड्भिर्लक्षणवानेतैस्समग्रं पुनरेष्यति
षड्भिस्सत्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः
ये विदुः प्रत्यगात्मानमिहस्थानमृतान्विदुः
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्
अध्यात्मसुकृतप्रज्ञस्सुखमव्ययमश्नुते
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः
यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा
येन तृप्यत्यभुञ्जानो येन तृप्यत्यपीतवान्
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्
असङ्गो ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन्
यो ह्यास्ते ब्राह्मणोऽक्लिष्टस्स आत्मरतिरुच्यते
समाहितं परे तत्त्वे क्षीणकाममवस्थितम्
सर्वतस्सुखमन्वेति वपुश्चान्द्रमसं यथा
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः
सुखेनापोह्यते दुःखं भास्करेण तमो यथा
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः
स यदा सर्वतो मुक्तस्समः पर्यवतिष्ठते
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थो न वर्तते
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्
पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम्