शुकः-
यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन
यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे
व्यासः-
धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिसंस्कृतम्
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाश्शृणु
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयच्छ यत्नतः
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्
मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः
तज्ज्यायस्सर्वधर्मेभ्यस्स धर्मः पर उच्यते
खानि सर्वाणि सन्धाय मनष्षष्ठानि मेधया
आत्मतृप्त उपासीत बहु चिन्त्यमचिन्तयन्
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मसु
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्
सर्वात्मानं महात्मानं विधूममिव पावकम्
सम्पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
एवमात्मा न जानीते क्व गमिष्ये कुतोन्वहम्
अन्यो ह्यत्रान्तरात्माऽस्ति यस्सर्वमनुपश्यति
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित्
विमुक्तस्सर्वपापेभ्यस्त्वचं त्यक्तत्वा यथोरगः
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः
सर्वतःप्रवहां घोरां नदीं लोकप्रवाहिनीम्
पञ्चेन्द्रियग्राहवतीं मनस्सङ्कल्परोधसम्
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्
संसारसागरगमां योनिपातालदुस्तराम्
आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः
तां तीर्णस्सर्वतोमुक्तः पूतात्मा ह्यात्मविच्छुचिः
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं भविष्यसि
सन्तीर्णस्सर्वसङ्केशान्प्रसन्नात्मा विकल्मषः
भूमिष्ठानीव भूतानि पर्वतस्थो निशामयेत्
न क्रुध्यन्न प्रहृष्यंश्च अनृशंसमतिस्तथा
ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययम्
एनं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः
आत्मनोऽव्ययिनो ज्ञानमिदं पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा
नैव स्त्री न पुमान्वाऽपि नैव चेदं नपुंसकम्
अदुःखमसुखं चैव ब्रह्मभूतं भवात्मकम्
नैतच्छ्रुत्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयाते
स्वभावप्रतिपत्त्यर्थमेतद्धर्मं विधीयते
यथा मतानि सर्वाणि न चैतानि यथा तथा
कथितानि मया पुत्र भवन्ति न भवन्ति च
तत्प्रीतियुक्तेन गुणान्वितेन वा पुत्रेण सत्पुत्र मनोनुगेन
पृष्टो हीदं प्रीतमना यथार्थं ब्रूयात्सुतस्येह यदुक्तमेतत्