व्यासः-
सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति
गुणान्विक्रियतस्सर्वानुदासीनवदीश्वरः
स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान्
ऊर्णनाभिर्यथा सत्त्वं सृजते तन्तुवद्गुणान्
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति
इतीमं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
अतीत्य सुखमासीत न शोचंश्छिन्नसंशयः
अनेनैव विधानेन भवेद्गर्भशयो महान्
अनादिनिधनं नित्यं आसाद्य विचरेन्नरः
न क्रुध्यन्न प्रहृष्यंश्च नित्यं विगतमत्सरः
ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित्
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमास्थितः
एवं बुद्ध्वा नरस्सर्वो भूतानामागतिं गतिम्
समवेक्ष्य शनैस्सम्यग्लभते गतिमुत्तमाम्
एतद्वै जन्मसामग्र्यं ब्राह्मणस्य विशेषतः
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्
एवं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं परत्र
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषां सनातनी