शुकः-
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम
व्यासः-
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते
तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
महाभूतानि पञ्चैव सागरस्योर्मयो यथा
प्रसार्येह यथाऽङ्गानि कूर्मस्संहरते पुनः
तद्वन्महान्ति भूतानि यवीयस्सु विकुर्वते
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तेषु वैषम्यं यस्मिन्यदनुपश्यति
शुकः-
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्
व्यासः-
एतत्ते वर्तयिष्यामि यथावदनुपूर्वशः
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत्
शब्दश्श्रोत्रं तथा खानि त्रयमाकाशसम्भवम्
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः
वायोस्स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते
आकाशप्रभवश्शब्दो गन्धो भूमिगुणस्स्मृतः
मनो बुद्धिस्स्वभावश्च त्रय एतेऽत्मयोनिजः
न गुणानतिवर्तन्ते गुणेभ्यः परमा गतिः
इन्द्रियाणि तथा पञ्च षष्ठं तु मन उच्यते
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमम्
चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
रजस्तमश्च सत्वं च त्रय एते त्वयोनिजाः
समास्सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति
एवमेवेन्द्रियग्रामं बुद्धिस्स्पृष्ट्वा नियच्छति
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिसत्तमा
गुणान्नेनीयते बुद्धिस्सुदृढैवेन्द्रियाणि च
मनष्षष्ठानीन्द्रियाणि बुद्ध्यभावे कुतो गुणाः
तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत्
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत्
यत्तु सन्तापसंयुक्तं अप्रीतिकरमात्मनः
रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्
यत्तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
प्रहर्षः प्रीतिरानन्दस्साह्यं स्वस्थात्मचित्तता
अकस्माद्यदि वा कस्माद्वर्तते सात्विको गुणः
अतिमानो मृषावादो मोहो लोभस्तथाऽक्षमा
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः
तथा मोहः प्रमादश्च तन्द्री निद्राऽप्रबोधिता
कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः