भीष्मः-
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर
व्यासेन कथितं पूर्वं सताय सुमहात्मने
व्यासः-
क्रमशस्तु वधीयेत तृतीया वृत्तिमुत्तमा
संयोगवृत्तिखिन्नानां वानप्रस्थाश्रमौकसाम्
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रमात्मनाम्
प्रेक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनाम्
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः |
अपत्यस्यापि चापत्यं वनमेव तदाऽऽश्रयेत्
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः
नियतो नियताहारष्षष्ठभक्तोऽप्रमादवान्
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः
अकृष्टं वै व्रीहियवं नीवारं विघसानि च
हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयस्स्मृताः
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः
वार्षिकं सञ्चयं केचित्केचिद्द्वादशमासिकम्
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः
ग्रीष्मे च पञ्चतपसश्शश्वच्च मितभोजनाः
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि
स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्
कृष्णपक्षे पिबन्त्येके भुञ्जते वा यथागतम्
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः
वर्तयन्ति यथान्यायं वैखानसमते स्थिताः
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्
चतुर्थश्चौपनिषदो धर्मस्साधारणस्स्मृतः
वानप्रस्थो गृहस्थश्च ततोऽन्यस्सम्प्रवर्तते
अस्मिन्नेव युगे तात विप्रैस्सर्वार्थदर्शिभिः
अगस्त्यस्सप्तऋषयो मधुच्छन्दोऽघमर्षणः
साङ्कृतिस्सुदिवातस्थिर्यवक्रीतः कृतश्रमः
अहोवीर्यस्तथा काव्यः कण्वो मेधातिथिः कुशः
स्मृतपालश्च निर्वाकश्शून्यपालश्शृतश्रवाः
एवं धर्मास्सुविद्वांसस्ततस्ते स्वर्गमाप्नुवन्
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः
ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम्
अवाच्या अपरिमेयाश्च ब्राह्मणा वनमाश्रिताः
वैखानसा वालखिल्याः विदिताश्च तथा परे
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः
अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः
जरसा तु परिद्यूनो व्याधिना परिपीडितः
चतुर्थे चायुषश्शेषे वानप्रस्थाश्रमं त्यजेत्
साद्यस्कां सन्निरुप्येष्टिं सर्ववेदसदक्षिणाम्
आत्मयाजी सोऽत्मरतिरात्मक्रीडोऽत्मसंश्रयः
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्
साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वशः
सदेव याजिनां यज्ञस्तथैवात्मनि वर्तते
त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात्
प्राणेभ्यो यजुषां पञ्च षट्चाश्नीयादकुत्सयन्
केशरोमनखान्वाप्य वानप्रस्थो मुनिस्तदा
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेत्पुनः
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते
सुनीतवृत्तो व्यपनीतकल्मषो न चेह नामुत्र च कर्म हीयते
अरोषमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः
यमेषु चैवात्मगतेषु न व्यथेत्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमात्
भवेदथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये
अतः परं श्रेष्ठमतीव सद्गुणैरधिष्ठितं त्रीनधिवृत्तमाश्रमान्
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्