व्यासः-
द्वितीयमायुषो भागं गृहमेधी गृहे वसेत्
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यत्नतः
गृहस्थवृत्तयश्चैव चतस्रः कविभिस्स्मृताः
कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरः
अश्वस्तनोऽथ कापोतीमास्थितो वृत्तिमाचरेत्
एषां परः परो ज्यायान्धर्मतो लोकजित्तमः
षट्कर्मा वर्तयत्येकस्त्रिभिरेकः प्रवर्तते
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून्
प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम्
नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः
तथाऽस्यातिथयः पूज्या हव्यकव्यवहास्सदा
वेदविद्याव्रतस्नाताश्श्रोत्रिया वेदपारगाः
स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते
नखरैस्सम्प्रयातस्य स्वकर्मख्यापकस्य वा
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीककारिणः
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः
अमृतं यज्ञशेषस्य भोजनं हविषा समम्
भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम्
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः
ऋत्विक्पुरोहिताचार्यैर्मालुलातिथिसंश्रितैः
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया
दुहित्रा दासवर्गेण विवादं नानुयोजयेत्
एतैर्विमुच्य संवादान्सर्वपापैर्विमुच्यते
एतैर्जितस्तु जयति सर्वाल्ँलोकान्न संशयः
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः
जामयोऽप्सरसां लोके वैश्वदेवेषु ज्ञातयः
सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ
बृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः
भ्राता ज्येष्ठस्समः पित्रा भार्या पुत्रस्स्वका तनुः
छाया स्वा दासवर्गस्तु दुहिता कृपणं परम्
तस्मादेतैरधिक्षिप्तस्सहेन्नित्यमसञ्ज्वरः
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः
न चार्थबद्धः कर्माणि धर्मं वा किञ्चिदाचरेत्
गृहस्थवृत्तयस्तिस्रस्तासां निश्श्रेयसं परम्
परस्परं तथैवाहुश्चातुराश्रम्यमेव तत्
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता
कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते
दश पूर्वान्दश परान्पुनाति च पितामहान्
गृहस्थवृत्तिं चाप्येतां वर्तयेद्यो गतव्यथः
स चक्रचरलोकानां सदृशीमाप्नुयाद्गतिम्
यतेन्द्रियाणामथवा गतिरेषा विधीयते
सर्वलोको गृहस्थानामुदारमनसां हितः
स्वर्गो विमानसंयुक्तो वेददृष्टस्सुपुष्पितः
स्वर्गलोको गृहस्थानां प्रतिष्ठा निवतात्मनाम्
ब्रह्मणा विहिता श्रेणिरेषा यस्माद्विधीयते
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते
अतः परं परममुदारमाश्रमं तृतीयमाहुस्त्यजतां कलेबरम्
वनौकसां गृहपतिनामनुत्तमं शृणु त्वमक्लिष्टशरीरकारिणाम्