व्यासः-
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये
किन्तु कर्मस्वभावो वा दैवं कर्मेति वा पुनः
तत्र वेदविवित्सार्थं ज्ञानं यत्पुरुषं प्रति
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु
पौरुषं कारणं केचित्केचित्कर्मेति मानवाः
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः
पौरुषं कर्म दैवं च फलवन्ति स्वभावतः
त्रयमेतत्पृथग्भूतमविवेकं तु केचन
एवमेतन्न चाप्येवमुभावेवं न चाप्युभौ
कर्मस्था विषयं ब्रूयुस्सत्वस्थास्समदर्शिनः
त्रेतायां द्वापरे चैव कलिजातास्ससंशयाः
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे
अपृथग्दर्शनास्सर्वे ऋक्सामसु यजुष्षु च
कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते
तपोधर्मेण संयुक्तस्तपोनित्यस्सुसंशितः
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति
तपसा तदवाप्नोति यद्भूतं सृजते जगत्
सत्यं तपश्च भूतानां सर्वेषां भवति प्रभुः
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते
आरम्भयज्ञाः क्षत्रास्स्युर्हविर्यज्ञा विशस्स्मृताः
परिचारयज्ञाश्शूद्रास्तु जपयज्ञा द्विजातयः
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
त्रेतायां सकला वेदा यज्ञा वर्णाश्रमास्तथा
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः
गवां भूमेश्च ये चापामोषधीनां च ये रसाः
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च
यथा सर्वाणि भूतानि वृष्ट्या तृप्यन्ति प्रावृषि
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगे युगे
विहितं कालनानात्वमनादिनिधनं च यत्
कीर्तितं यत्पुरस्तात्ते यतस्संयान्ति च प्रजाः
धातेदं प्रभवस्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रियाफलम्
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि