व्यासः-
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत्
शुकः-
किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम्
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि
व्यासः-
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते
विद्यया तात दृष्टानां विद्या हि परमा गतिः
यस्तु पश्येत्स्वभावेन विना भावमचेतनः
पुष्णाति स पुनस्सर्वान्प्रज्ञया मुक्तहेतुकः
येषां चैकान्तभावेन स्वभावः कारणं मतम्
दूर्वातृणबृसीका ये ते लभन्ते न किञ्चन
ये चैनं पक्षमाश्रित्य वर्तयन्तेऽल्पचेतसः
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते
स्वभावो हि विनाशाय मोहकर्ममनोभवः
निरुक्तमेतयोरेवं स्वभावपरिभावयोः
कृष्यादीनीह कर्माणि सस्यसङ्गहणानि च
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च
आक्रीडानां गृहाणां च गतानामगतस्य च
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्
जराय्वण्डमथोद्भेदस्वेद इत्युपलक्षयेत्
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत्
उपपन्नं हि यच्छ्रेष्ठं विशिष्येत विशेषतः
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु
द्विपादानि विशिष्टानि जातिधर्मावधारणात्
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च
उत्तमानि विशिष्टानि जातिधर्मोपधारणात्
उत्तमानि द्वयान्याहुर्धर्मज्ञानीतराणि च
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात्
विज्ञायन्ते हि यैर्वेदास्सहधर्मफलक्रियाः
सयज्ञास्सकला वेदाः प्रवक्तृष्वभिनिस्सृताः
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्
धर्मद्वयं हि यो वेद सर्वज्ञस्सर्वधर्मवित्
सत्याशीस्सत्यसङ्कल्पस्सत्यक्षान्तिस्स ईश्वरः
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्
अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम्
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम्
तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन
आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः
चतुर्विधस्य भूतस्य सर्वस्येशास्स्वयम्भुवः