व्यासः-
अथ चेद्रोचयेदेतदुह्यते मनसा तथा
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत्
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः
नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन
हीनदोषो मुनिर्योगाद्युक्तो युञ्जीत वा दश
दशकर्मसुखानर्थानुपायापायनिष्क्रियः
चक्षुराचारसङ्ग्राहैर्मनसा दर्शनेन च
यच्छेद्वावं मनो बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः
यदि वा सर्ववेदज्ञो यदि वाऽप्यनृचो जपन्
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः
यदि वा पुरुषव्याघ्रो यदि वैक्लब्यधारणः
तरत्येवं महादुर्गं जरामरणसागरम्
एवं ह्येतेन योगेन युञ्जानोऽप्येवमन्ततः
अपि जिज्ञासमानोऽपि शब्दब्रह्माऽतिवर्तते
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः
अपानाक्षः प्राणयुगः प्रज्ञायुग्जीवबन्धनः
चेतनाबन्धुरश्चारुराचारग्रहनेमिमान्
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः
प्रज्ञानाभिर्धर्मतन्त्रप्रतोदो ज्ञानसारथिः
क्षेत्रज्ञाधिष्ठितो धैर्यश्श्रद्धादमपुरस्सरः
त्यागरश्म्यनुगः क्षेम्यश्शौचगो ध्यानगोचरः
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते
अथ सत्त्वं समासाद्य रथमेवं युयुक्षतः
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्
सप्त यो धारणाः कृत्स्ना बाह्यतः प्रतिपद्यते
पृष्ठतः पार्श्वतश्चान्यास्तावत्यस्ताः प्रधारणाः
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः
ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते
व्युत्क्रमाच्चापि यस्यैते तथा युङ्क्ते स योगतः
तथाऽस्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः
निर्मुच्यमानस्सूक्ष्मात्मा रूपाण्येतानि दर्शयेत्
शैशिरस्तु यथा धूमस्सूक्ष्मस्संश्रयते नभः
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत
अथ धूमस्य विरमेद्द्वितीयं रूपदर्शनम्
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते
तस्मिन्नुपरते चास्य वायव्यं सूक्ष्ममप्यथ
रूपं प्रकाशते तस्य पीतवर्णवदप्यजे
तस्मिन्नुपरते रूपमाकाशस्य प्रकाशते
ऊर्णासवर्णरूपं तत्तस्य रूपं प्रकाशते
ततश्चैतां गतिं गत्वा सोऽहङ्कारे प्रकाशते
तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते
सुशुक्लं चेतसस्सौम्यमव्यक्ते ब्राह्मणस्य वै
एतेष्वपि हि जातेषु फलजातानि मे शृणु
जातस्य पार्थिवैश्वर्यैस्सृष्टिरिष्टा विधीयते
प्रजापतिरिवाक्षोभ्यश्शरीरात्सृजते प्रजाः
वर्णतो गृह्यते चाप्सु नापः पिबति चाशया
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा
पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतिः
आकाशभूतश्चाकाशे सवर्णत्वान्न दृश्यते
न चास्य तेजसां रूपं दृश्यते शाम्यते तथा
अहङ्कारस्य विजिते पञ्चैते स्युर्वशानुगाः
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्युत
निर्दोषा प्रतिभा ह्येषा कृत्स्ना समभिवर्तते
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते
यतो निस्सरते लोको भवति व्यक्तसञ्ज्ञकः
विषयात्प्रतिसंहारस्साङ्ख्यानां सिद्धिलक्षणः
तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे
तथा व्यक्तमयं चैव सङ्ख्यापूर्वं निबोध मे
पञ्चविंशतितत्त्वानि तुल्यान्युभयतस्समम्
योगे साङ्ख्येऽपि च तथा विशेषं तत्र मे शृणु
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ
चतुर्लक्षणजं त्वान्यच्चतुर्वर्गं प्रचक्षते
व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत्
सत्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम्
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः
विषयात्प्रतिसंहारस्साङ्ख्यानां विद्धि लक्षणम्
निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः
आक्रुष्टस्ताडितश्चापि मैत्रीं ध्यायति नाशुभम्
वाङ्मनःकायदण्डानां त्रयाणां च निवर्तकः
समस्सर्वेषु भूतेषु ब्रह्माणमभिवर्तते
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः
अलोलुपोऽव्यथो दान्तो नाकृतिर्न निराकृतिः
नास्येन्द्रियमनेकाग्रं नातिक्षिप्तो मनोरथः
अहिंस्रस्सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते
अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते
इत्येषोभयजा बुद्धिः कथिता ते न संशयः
एवं भवति निर्द्वन्द्वो ब्रह्माणं चातिवर्तते