व्यासः-
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयाति च
ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत्
भूमेरपि गुणं गन्धमाप आददते यदा
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते
आपस्ततः प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः
सर्वमेवेदमापूर्य तिष्ठन्ति विचरन्ति च
अपामपि गुणांस्तात ज्योतिराददते यदा
आपस्तदा चात्तरसा ज्योतिष्युपरमन्ति वै
यदा रसगुणं तासां ग्रसन्ति शिखिनोऽर्चिषः
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान्
ततस्तु मूलमासाद्य वायुस्सम्भवमात्मनः
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्
सर्वलोकप्रणुदितं खं तु तिष्ठति नानदत्
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः
मनसो व्यक्तमव्यक्तं ब्राह्मस्सम्प्रतिसञ्चरः
तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते
तं तु कालेन महता सङ्कल्पं कुरुते वशे
चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम्
कालो हरति विज्ञानं कालं बल इति श्रुतिः
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत्
यथावत्कीर्तितं सम्यगेवमेतदसंशयम्
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मनि
एवं विस्तारसङ्क्षेपौ ब्रह्माव्यक्ते पुनःपुनः
युगसाहस्रयोरादावहोरात्र्यास्तथैव च