व्यासः-
ब्रह्मतेजोमयं शुक्लं यस्य सर्वमिदं रसः
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम्
अहर्मुखे विबुद्धं तत्सृजते विद्यया जगत्
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः
अथ भूयोऽपि चार्चिष्मानसृदत्सप्त मानसान्
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनस्सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशो जायते तस्मात्तस्य शब्दो गुणो मतः
आकाशात्तु विकुर्वाणात्सर्वगन्धवहश्शुचिः
बलवाञ्जायते वायुस्तस्य स्पर्शं गुणं विदुः
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम्
रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः
अद्भ्यो गन्धगुणा भूमिः पूर्वेषां सृष्टिरुच्यते
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्
तेषां यावद्विधं यद्यत्तत्तावद्गुणकं स्मृतम्
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात्
पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्
एते वै सप्त पुरुषा नानावीर्याः पृथक्पृथक्
नाशक्नुवन्प्रजास्स्रष्टुमसमागम्य कृत्स्नशः
ते समेत्य महात्मान अन्योन्यमभिसंश्रिताः
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते
श्रयणाच्छरीरं भवति मूर्तिमान्षोडशात्मकः
तमाविशन्ति भूतानि महान्ति सह कर्मणा
सर्वभूतानि चादाय तपसश्चरणाय च
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम्
स वै सृजति भूतानि स एव पुरुषः परः
अजो जनयते ब्रह्मा देवर्षिपितृमानवान्
लोकान्नदीस्समुद्रांश्च दिशश्शैलान्वनस्पतीन्
नरकिन्नररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव ते प्रपाद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु
विनियोगं च भूतानां धातैव विदधात्युत
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः
दैवमित्यपरे विप्रास्स्वभावं भूतचिन्तकाः
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रय एतेऽपृथग्भूता अविवेकस्त्वकिञ्चनः
एवमेतच्च दैवं च यद्भूतं सृजते जगत्
कर्मस्था विषयं ब्रूयुस्सत्वस्थास्समदर्शिनः
ततो निश्श्रेयसं जन्तोस्तस्य मूलं शमो दमः
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति
तपसा तदवाप्नोति यद्भूतं सृजते जगत्
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा
आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः
ऋषीणां नामधेयानि याश्च लोकेषु सृष्टयः
नाम रूपं च भूतानां कर्मणां च प्रवर्तनम्
वेदशब्देभ्य एवादौ निर्मिमीते महेश्वरः
नामधेयानि वर्णानि याश्च लोकेषु सृष्टयः
शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददात्यजः
नामभेदतपःकर्मयज्ञाख्या लोकसिद्धये
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः
तदन्तेषु यथादृष्टं क्रमयोगेन लक्ष्यते
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो हि देहिनाम्
आत्मसिद्धिस्तु विज्ञानाज्जहाति प्रायशो बलम्
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
आलम्भयज्ञा राजानो हविर्यज्ञा विशस्स्मृताः
परिचारयज्ञाश्शूद्रास्तु तपोयज्ञा द्विजातयः
त्रेतायुगे विधिस्तेषां यज्ञानां न कृते युगे
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च
काम्या इष्टीः पृथक्दृष्टास्तपद्भिस्तप एव च
त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः
संयन्तारस्स्थावराणां जङ्गमानां च सर्वशः
त्रेतायां संहता वर्णा वेदा यज्ञास्तथैव च
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे खिलाः
उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते
आत्मवत्सु तपोवत्सु श्रुतमत्सु प्रतिष्ठितः
स धर्मः प्रैति संयोगं यथाधर्मं युगे युगे
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम्
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु
विहितं कालनानात्वमनादिनिधनं तथा
कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः
एतद्धि प्रभवस्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रियाफलम्
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः
दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा
सर्वमेतत्तदर्चिर्भिः पूर्वं जाज्वल्यते जगत्