युधिष्ठिरः-
आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् |
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते
अधीत्य वेदानखिलान्साङ्गोपनिषदांस्तथा
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिश्शुकः
पप्रच्छ संशयमिमं छिन्नधर्मार्थसंशयम्
शुकः-
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति
भीष्मः-
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते
अतीतानागते विद्वान्सर्वज्ञस्सर्वधर्मवित्
व्यासः-
अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत
काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम्
त्रिंशत्कलाश्चापि भवेन्मुहूर्तो भागः कलाया दश पञ्च च स्यात्
त्रिंशन्मुहूर्तस्तु भवेदहश्च रात्रिश्च सङ्ख्या मुनिभिः प्रणीता
मासस्स्मृतो रात्र्यहनी तु त्रिंशत्संवत्सरो द्वादशमास उक्तः
संवत्सरं द्वे अयने वदन्ति सङ्ख्याविदो दक्षिणमुत्तरं च
अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिस्स्वप्नाय संयाति चेष्टायै कर्मणामहः
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
कृष्णोऽहः कर्मचेष्टायै कृष्णस्स्वप्नाय शर्वरी
दैवे रात्र्यहनी ह्यब्दः प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिस्स्याद्दक्षिणायनम्
एते रात्र्यहनी पूर्वैः कीर्तिते दैवलौकिके
तयोस्सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा
चत्वार्याहुस्सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु
एकापायेन संयान्ति सहस्राणि शतानि च
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्
इति तु ब्रह्मविद्यान्तं विदितं ब्रह्म शाश्वतम्
चतुष्पात्सकलो धर्मस्सत्यं चैव कृते युग
नाधर्मेणागमः कश्चिद्युगे तस्मिन्प्रवर्तते
इतरेषु क्रमाद्धर्मः पादशस्त्ववरोप्यते
सत्यं शौचं तथाऽऽयुश्च धर्मश्चापैति पादशः
चौरिकानृतमायाभिरधर्मश्चोपचीयते
अरोगास्सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः
वेदवादाश्चानुयुगं ह्रसन्तीती च नश्श्रुतम्
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्
द्वापरे यज्ञमेवाहुर्दानमेव कलौ परम्
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः
सहस्रपरिवृत्तं तद्ब्राह्मो दिवस उच्यते
रात्रिस्तु तावती ब्राह्मी तदादौ विश्वमीश्वरः
प्रलयेऽध्यात्ममावेश्य सुप्त्वा सोऽन्ते विबुध्यते
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः