युधिष्ठिरः-
प्रियस्सर्वस्य लोकस्य सर्वसत्वाभिनन्दितः
गुणैस्सर्वैरुपेतश्च को न्वस्ति भुवि मानवः
भीष्मः-
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ
उग्रसेनस्य संवादं नारदे केशवस्य च
उग्रसेनः-
वश्यस्सङ्कल्पतो लोको नारदस्य प्रकीर्तने
मन्यसे गुणसम्पन्नो ब्रूहि तं मम पृच्छतः
श्रीभगवान्-
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः
नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः
अहीनश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः
तेजसा यशसा बुद्ध्या नयेन विनयेन च
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः
अरतिः क्रोधचापल्ये भयं नैतानि नारदे
अदीर्घसूत्रश्शूरश्च तस्मात्सर्वत्र पूजितः
उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः
अध्यात्मविधितत्त्वज्ञः क्षान्तश्शक्तो जितेन्द्रियः
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः
दृढभक्तिरदीनात्मा श्रुतवानानृशंस्यवान्
वीतसम्मोहदोषश्च तस्मात्सर्वत्र पूजितः
सुशीलस्सुखसंवेशस्सुभोजास्स्वादरश्शुचिः
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथञ्चन
मनोऽनुकूलवादी च तस्मात्सर्वत्र पूजितः
बहुश्रुतश्चित्रकथः पण्डितोऽनलसोऽशठः
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः
समाधिर्नास्य मानार्थं नात्मानं स्तौति कर्हिचित्
अनीर्षुर्मृदुसम्भाषस्तस्मात्सर्वत्र पूजितः
लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन्
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः
असक्तस्सर्वभूते तु सक्तात्मेव च लक्ष्यते
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः॥
नासूयत्यागमं कञ्चित्स्वं तपो नोपजीवति
अवन्ध्यकालोऽवश्यात्मा तस्मात्सर्वत्र पूजितः
कृतश्रमः कृतप्रज्ञो ज्ञानतृप्तस्समाहितः
नित्ययुक्तोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः
सापत्रपश्च युक्तश्च विनेयश्श्रेयसे परैः
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः
भीष्मः-
तं सर्वगुणसम्पन्नं दक्षं शुचिमनाकुलम्
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति
इत्युक्तस्सम्प्रशस्यैनमुग्रसेनो गतो गृहात्