युधिष्ठिरः-
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह
भीष्मः-
मन एव मनुष्यस्य पूर्वरूपाणि शंसति
भविष्यतश्च भद्रं ते तथैव न भविष्यतः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर
महतस्तपसो व्यष्ट्या पश्यल्ँलोकान्परावरान्
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः
ब्रह्मेवामितदीप्तौजाश्शान्तपाप्मा महातपाः
विचचार यथाकालं त्रिषु लोकेषु नारदः
कदाचित्प्रातरुत्थाय पिस्पृक्षुस्सलिलं शुचि
ध्रुवद्वारभवां गङ्गां जगामावततार च
सहस्रनयनश्चापि वज्री शम्बरवृत्रहा
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह
तावाप्लुत्य महात्मानौ कृतजप्यौ समासतुः
नद्याः पुलिनमासाद्य मुक्ताकाञ्चनवालुकम्
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः
चक्रतुस्तौ कथाशीलौ महर्षिकथितास्तथा
पूर्ववृत्तान्यतीतानि कथयन्तौ समाहितौ
अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्
आकाशे ददृशे ज्योतिरुद्यदर्क समप्रभम्
अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम्
तयोस्समीपं सम्प्राप्य प्रत्यदृश्यत भारत
तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम्
भाभिरप्रतिमं ताभिस्त्रैलोक्यमवभासयत्
दिव्याभिरभिरूपाभिरप्सरोभिः पुरस्कृताम्
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्
नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम्
श्रियं ददृशतुः प्राप्तां साक्षात्पद्मदले स्थिताम्
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा
अभ्यागच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम्
नारदानुगतं साक्षान्मघवन्तमुपागमत्
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्
देवराजश्श्रियं देवीं वाक्यं राजन्नुवाच ह
शक्रः-
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि
कुतश्चात्रागता देवी कार्यं वा किञ्च ते शुभे
श्रीः-
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
ममात्मभावमिच्छन्तो यतन्ते परमात्मना
साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी
अहं लक्ष्मीरहं भूतिश्श्रीश्चाहं बलसूदन
अहं श्रद्धा च मेधा च सन्नतिर्विजितिस्स्मृतिः
अहं रतिरहं सिद्धिरहं सम्भूतिरेव च
अहं स्वाहा स्वधा चैव सन्ततिर्नियतिः कृतिः
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
निवसे धर्मशीलानां विषयेषु पुरेषु च
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि
निवसामि मनुष्येन्द्रे सदैव बलसूदन
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
प्रश्रिते दानशीले च सदैव निवसाम्यहम्
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात्
विपरीतांस्तु तान्दृष्ट्वा त्वयि वासमरोचयम्
शक्रः-
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्
श्रीः-
स्वधर्ममनुतिष्ठत्सु धैर्यादुद्धारितारिषु
स्वर्गमार्गाभिरामेषु दैत्येष्वभिरताऽस्म्यहम्
दानाध्ययनयज्ञाढ्या गुरुदैवतपूजकाः
विप्राणामतिथीनां च तेषां नित्यानुवर्तकाः
सुसम्मृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः
गुरुशुश्रूषवो दान्ता ब्रह्मण्यास्सत्यवादिनः
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्ष्यवः
नामर्षणा न चान्योन्यं स्पृहयन्ते कदाचन
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः
दातारस्सङ्ग्रहीतारः कार्यकारणवेदिनः
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः
यथार्हमानार्थकरा ह्रीनिषेधा जितेन्द्रियः
नित्यं पर्वसु सुस्नातास्स्वनुलिप्तास्स्वलङ्कृताः
उपवासतपश्शीलाः व्रतिनो ब्रह्मवादिनः
नैतानभ्युदयात्सूर्यो न चाप्यासन्प्रगेशयाः
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यसर्जयन्
काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः
मङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन्
सदा हि ददताे दानं सदा न प्रत्यगृह्णत
अर्धं च रात्र्यास्स्वपतां दिवा चास्वपतां तथा
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
सतां च संविभज्यान्नं नित्यमेवान्वमोदताम्
कालो यातस्सुखेनैव धर्ममार्गे च वर्तताम्
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम्
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते
धर्ममेवानुवर्तन्ते नासूयन्ति परस्परम्
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः
गुरुदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन्
अवशेषाणि चाश्नन्ति नित्यं सत्यपतोद्यताः
नैके ह्यश्नन्ति सम्पन्नं न गच्छन्ति परस्त्रियम्
सर्वभूतेषु वर्तन्ते यथाऽऽत्मनि दयां प्रति
नैवाकाशे न पशुषु नायोनौ च न पर्वसु
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा
उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा
सत्यं दानं तपश्शौचं कारुण्यं वागनिष्ठुरा
मित्रेषु चानभिद्रोहस्सर्वं तेष्वभवत्प्रभो
निद्रा तन्द्रीह्यसम्प्रीतिरसूया चानवेक्षिता
अरतिश्च विषादश्च न स्पृहा च विशन्ति तान्
साऽहमेवङ्गुणेष्वेषु दानवेष्ववसं पुरा
प्रजासर्गमुपादाय नैवं गुणविपर्यये
ततः कालविपर्यासे तेषां गुणविपर्ययात्
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम्
सदा सतां वै वृद्धानां सभ्याः कथयतां कथाः
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुरून्परान्
यूनस्सह समासीनान्वृद्धानभिगतान्सतः
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्
वर्तयत्येव पितरि पुत्रः प्रभवतात्मना
अमित्रभृत्यतां प्राप्य ख्यापयन्तेऽनपत्रपाः
तथा धर्मादपेतेन कर्मणा गर्हितेन ये
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा
उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राह्नि संलपन्
पुत्राः पितॄनत्यवदन्भार्यश्चात्यचरन्पतीन्
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
गुरुत्वान्नाभ्यवन्दन्त कुमारान्नान्वपालयन्
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून्
न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम्
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम्
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम्
कुद्दालामत्र पिटकं प्रकीर्णं कांस्यभोजनम्
द्रव्योपकरणं सर्वं नान्ववेक्षत्कुटुम्बिनी
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयम्
तथा भृत्यजनं सर्वं पर्यतीत्य च दानवाः
पायसं कृसरं मांसमपूपानथ शष्कुलीः
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन्
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः
आवृत्तकलहाश्चात्र दिवारात्रं गृहे गृहे
आर्याश्चानार्यमासीनं पर्युपासन्न तत्र ह
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्तः परस्परम्
सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये
निरन्तरविशेषास्ते बहुमानावमानयोः
भावमाभरणं वेषं गतिं मतिमवेक्षितम्
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्
स्त्रियः पुरुषवेषेण पुंसस्स्त्रीवेषधारिणः
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तस्सम्भवेष्वपि
मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित्
वालकोट्यग्रमात्रेण स्वार्थेनापातयन्वसु
परस्वादानरुचयो विपण्यव्यवहारिणः
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः
अधीयन्तेऽव्रताः केचिद्वृथा व्रतमुपासते
अशुश्रूषुर्गुरोश्शिष्यः कश्चिच्छिष्यसखो गुरुः
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतस्सुतान्
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः
कृष्यादिष्वभवन्सक्ता मूर्खाश्श्राद्धानि भुञ्जते
सायं प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत
अन्वशासत भर्तारं समाहूयातिजल्पति
प्रयत्नेनापि नावैक्षद्वित्तं पुत्रस्य वै पिता
व्यभजच्चापि संरम्भाद्दुःखवासानथावसत्
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भावितानपि
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः
तेष्वेवमादीनाचारानाचरत्सु विपर्यये
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः
तन्मां स्वयमनुप्राप्तामभिनन्द शचीपते
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः
सप्तदेव्यो मयाऽष्टम्या वासमेष्यन्ति मेऽष्टधा
आशा श्रद्धा धृतिः क्षान्तिर्विजितिस्सन्नतिः क्षमा
अष्टमीं विद्धि मां तासां पुरोगा पाकशासन
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः
त्रिदशेषु निवत्स्यामो धर्मनित्यान्तरात्मसु
भीष्मः-
इत्युक्तवचनां देवीमत्यर्थं वै ननन्दतुः
नारदश्चा त्रिलोकर्षिर्वृत्रहा चापि वासवः
ततोऽनलसखो वायुः प्रववौ देववेश्मसु
इष्टगन्धस्सुखस्पर्शस्सर्वेन्द्रियसुखावहः
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशस्स्थिताः
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः
ततो दिवं प्राप्य सहस्रलोचनश्श्रियोपपन्नस्सुहृदा सुरर्षिणा
रथेन हर्यश्वयुजा सुरर्षभस्सदस्सुराणामभिसत्कृतो ययौ
अथेङ्गितं वज्रधरस्य नारदश्श्रियश्च देव्या मनसा विचारयन्
श्रियै शशंसामरराजपौरुषं शिवेन तत्रागमनं महर्धितम्
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयम्भुवः
अनाहता दुन्दुभयोश्च नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन
अनेकरत्नाकरभूषणा च भूस्सुघोषयोषा त्रिदिवौकसां जये
क्रियाभिरामा मनुजा मनस्विनो बभुश्शुभैः पुण्यकृतां पथि स्थिताः
नरामराः किन्नरयक्षराक्षसास्समृद्धिमन्तस्सुखिनस्तपस्विनः
न जात्वकाले कुसुमं फलं कुतः पपात वृक्षात्पवनेरितादपि
रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित्
इमां सपर्यां सह सर्वकामदैश्श्रियाश्च शक्रप्रमुखैश्च दैवतैः
पठन्ति ये ब्रह्मसदस्समागतास्समृद्धकामाश्श्रियमाप्नुवन्ति ते
त्वया कुरूणां प्रवर प्रचोदितं भवाभवस्येह परं निदर्शनम्
तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि