युधिष्ठिरः-
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि
भीष्मः-
पुत्रदारैस्सुखैश्चैव वियुक्तस्य धनेन च
मग्नस्य व्यसने कृच्छ्रे धृतिश्श्रेयस्करी नृप
धैर्येण युक्तस्य सतश्शरीरं न विशीर्यते
आरोग्यात्तु शरीरस्य स पुनर्विन्दते श्रियम्
यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
बलिवासवसंवादं पुनरेव युधिष्ठिर
वृत्ते देवासुरे युद्धे दैत्यदानवसङ्क्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः
गन्धर्वैर्भुजगैस्सिद्धैर्दिव्यैश्चान्यैर्वृतः प्रभुः
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे
बलिं वैरोचनिं वज्री ददर्शोपससर्प च
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
सुरेन्द्रमपि दैत्येन्द्रो न शुशोच न विव्यथे
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः
शक्रः-
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्
शत्रुभिर्वशमानीतो हीनस्स्थानादनुत्तमात्
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्
भीष्मः-
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत्
बलिः-
निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरन्दर
अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति
यस्तु शत्रोर्वधं कर्तुं शक्तोऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तमेव पुरुषं विदुः
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
एकः प्राप्नोति विजयमेकश्चैव पराजयम्
मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे
ईश्वरे सर्वभूतानां विक्रमेण जिते बलात्
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम्
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम्
माऽवमंस्था मया कर्म दुष्कृतं कृतमित्युत
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तश्शक्र न कर्मणा
कालो नयति मां त्वां च कालं कालो नयत्यधः
तेनाहं च यथाऽद्य त्वं त्वं च वारि यथा वयम्
न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः
न विद्या न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्
नागामिनमनर्थं हि प्रतिघातशतैरपि
शक्नुवन्ति प्रतिच्छेत्तुमृते बुद्धिबलान्नराः
पर्यायैर्हन्यमानानां परित्राता न विद्यते
इदं हि दुःखं यच्छक्र कर्ताऽहमिति मन्यसे
यदि स्यात्पुरुषः कर्ता न क्रियेत कदाचन
यस्मात्तु क्रियते कर्ता तस्मात्कर्ता न हीश्वरः
कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया
गन्ता गतिमतां कालः कालः कलयति प्रजाः
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा
कथं त्वस्मद्विधो नाम जानल्ँलोके प्रवृत्तिजान्
कालेनाभ्याहतश्शोचेन्मुह्येद्वाऽप्यर्थसभ्रमे
कथं कालपरीतस्य मम वा मद्विधस्य वा
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
काले परिणते कालः कलयिष्यति मामिव
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित्
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे
अविश्वस्ये विश्विसिषि मन्यसे वाऽध्रुवे ध्रुवम्
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर
ममेयमिति मोहात्त्वं राज्यश्रियमभीप्ससि
नेयं तव न चास्माकं न चान्येषां स्थिरा मता
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता
कञ्चित्कालमियं स्थित्वा त्वयि वासव चञ्चला
जीर्णं वासमिवोत्सृज्य पुनरन्यं गमिष्यति
सुरेशा ये ह्यतिक्रान्तास्तान्न सङ्ख्यातुमुत्सहे
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरन्दर
सवृक्षौषधिगुल्मेयं ससरिगिरिकानना
पृथुर्बलो मयो भौमो नरकश्शम्बरस्तथा
अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः
ह्रीनिषेधश्च होत्रश्च भूरिहा पुष्पवान्वृषः
सत्येषुर्ऋषभो राहुः कपिलाश्वो विरूपकः
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः
हृद्योद्भूतो हरिद्राभो वराहाऽश्वरुचिः प्रभुः
विश्वजित्प्रतिशौरिश्च वृषाश्वो वृषरो मधुः
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः
दैत्याश्च कालकेया हि सर्वे ते नैर्ऋतैस्सह
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुमः
बहवः पूर्वदैत्येन्द्रास्सन्त्यज्य पृथिवीं गताः
कालेनाभ्याहतास्सर्वे कालो हि बलवत्तरः
सर्वैः क्रतुशतैरिष्टं न त्वमेकश्शतक्रतुः
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः
अन्तरिक्षचरास्सर्वे सर्वे सततयोधिनः
सर्वे संहननोपेतास्सर्वे परिघबाहवः
सर्वे मायाशतधरास्सर्वे ते कामचारिणः
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः
सर्वे सत्यव्रतधरास्सर्वे कामविहारिणः
सर्वे वेदव्रतपरास्सर्वे चैव बहुश्रुताः
सर्वे सम्हतमैश्वर्यमीश्वरात्प्रतिपेदिरे
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्
सर्वे यथार्हदातारस्सर्वे विगतमत्सराः
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे
सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः
मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम्
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय
मां चेदभ्यागतः कालस्सदा युक्तमतन्द्रितम्
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह
संयते मयि नूनं त्वमात्मानं बहु मन्यसे
कालः प्रथममायान्मां पश्चात्त्वामनुधावति
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि
को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव
यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति
यथा मे सर्वगात्राणि न स्वस्थानि गतौजसः
अहमैन्द्राच्च्युतस्स्थानात्त्वमिन्द्रः प्रकृतो दिवि
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः
किं हि कृत्वा त्वमिन्द्रोऽद्य किं च कृत्वा वयं च्युताः
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्
लाभं विनाशमैश्वर्यं सुखदुःखे भवाभवौ
विद्वान्प्राप्यैवमत्यन्तं न प्रहृष्येन्न च व्यथेत्
त्वमेव हीन्द्र मां वेत्थ वेदाहं त्वां च वासव
विकत्थसे मां किं बद्धं कालेन निरपत्रपः
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिस्सह
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते
त्वमेव शक्र जानासि देवासुरसमागमे
समेता हीन्द्र विबुधा भग्नास्ते समरे मया
पर्वताश्चासकृत्क्षिप्तास्सवनास्सवनौकसः
सटङ्कशिखरा घोरास्समरे मूर्ध्नि ते मया
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः
तेन त्वां मर्षये शक्र सुदुर्धर्षतरस्त्वया
तं मां परिणते काले परीतं कालवह्निना
नियतं कालपाशेन बद्धं शक्र विकत्थसे
अयं स पुरुषश्श्यामो लोकस्य दुरतिक्रमः
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः
सोयं पचति कालो मां वृक्षे फलमिवाहितम्
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते
न च कालेन कालज्ञस्स्पृष्टश्शोचितुमर्हति
तेन शक्र न शोचामि नास्ति शोके सहायता
यदा हि शोचतश्शोको व्यसनं नापकर्षति
सामर्थ्यं शोचतो नास्ति नैव शोचिम्यहं ततः
भीष्मः-
एवमुक्तस्सहस्राक्षो भगवान्पाकशासनः
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः
इन्द्रः-
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशान्सुदारुणान्
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
व्रुवन्न व्यथसे सत्त्वाद्वाक्यं सत्यपराक्रम
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्
अनीशं स्माप्रमत्तस्य भूतानि पचतस्सदा
अनिर्वृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्
पुराणश्शाश्वतो धर्मस्सर्वप्राणभृतां समः
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः
अहोरात्राणि मासांश्च क्षणान्काष्ठाः कला लवान्
सवर्धयति नः कालो वृद्धिं वार्धुषिको यथा
इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम्
कालो हरति सम्प्राप्तो नदीवेग इवोडुपम्
इदानीं तावदेवासौ मया दृष्टः कथं मृतः
इति कालेन म्रियतां प्रलापश्श्रूयते नृणाम्
नश्यन्त्यर्थास्तथा भोगास्स्थानमैश्वर्यमेव च
उच्छ्राया विनिपातान्ता भावोऽभावस्तथैव च
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
अहमासं पुरा चेति मनसाऽपि न मन्यसे
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च
स्पृहामोहातिमानेषु लोकस्सक्तो न बुध्यते
स भवान्भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः
कालं पश्यति सुव्यक्तं पाणावामलकं यथा
कालचारित्रतत्त्वज्ञस्सर्वशास्त्रविशारदः
वैरोचने कृतार्थोऽसि स्पृहणीयो विजानताम्
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम्
सुप्रीतो नष्टसन्तापस्त्वामात्मानमुपाससे
सुहृदं सर्वभूतानां निर्वैरं शान्तचेतसम्
दृष्ट्वा त्वां मम सञ्जाता त्वय्यनुक्रोशिनी मतिः
नाहमेतादृशं बुद्धुं हन्तुमिच्छामि बन्धनैः
आनृशंस्यं परो धर्मो ह्यनुक्रोशोस्ति मे त्वयि
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा
सङ्करं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय
सुखी भव निराबाधस्स्वस्थचेता निरामयः
भीष्मः-
तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः
विजित्य सर्वानसुरान्बहूनिमान्ननन्द हर्षेण बभूव चैकराट्
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम्
हिमापहो हव्यमुदावहत्त्वरंस्तथाऽमृतं चार्पितमीश्वराय ह
द्विजोत्तमैस्सत्रगतैरभिष्टुतो विदीप्ततेजाश्शतमन्युरीश्वरः
प्रशान्तचेता मुदितस्स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः