भीष्मः-
पुनेरव तु तं शक्रः प्रहसन्निदमब्रवीत्
निश्श्वसन्तं यथा नागं प्रत्याहाराय भारत
शक्रः-
उद्यद्यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान्प्रतापयन्सर्वान्यास्यस्मानवशातयन्
दृष्ट्वा सुकृपणां चेमागयस्थामात्मनो बले
ज्ञातिमित्रपरित्यक्तश्शोच्योऽस्याहो न शोचसि
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्
विनिपातमिमं चाद्य शोचस्याहो न शोचसि
बलिः-
अनित्यमुपलक्ष्येऽहं कालपर्यायमात्मनः
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
अन्तवन्त इमे देहा भूतानाममराधिप
तेन शक्र न शोचामि नापराधादिदं मम
जीवितं च शरीरं च जात्या वै सह जायते
उभे सह विवर्धेते उभे सह विनश्यतः
न हीदृशमिमं भावमवशः प्राप्य केवलम्
सदैवमभिजानामि का व्यथा मे विजानतः
भूतानां निधनं निष्ठा स्रोतसामिव सागरः
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत्
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्ह्येषां प्रणश्यति
बुद्धिलाभात्तु पुरुषस्सर्वं नुदति किल्बिषम्
विपाप्मा लभते सत्वं सत्वस्थस्सम्प्रसीदति
ततस्तु ये निवर्तन्ते जायन्ते च पुनःपुनः
कृपणाः परितप्यन्ते तेऽनर्थैरभिचोदिताः
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत्
को हि लोकस्य कुरुते विनाशप्रभवावुभौ
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एतद्योनीनि भूतानि तत्र का परिदेवना
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः
सर्वं कालस्समादत्ते गम्भीरस्स्वेन तेजसा
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः
जग्धमेवानुभवति मतमेवानुहन्यते
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः
नास्य द्वीपः कुतः पारं न पारं सम्प्रदृश्यते
नान्तमस्य प्रपश्यामि विधेर्देवस्य चिन्तयन्
यदि मे पश्यतः कालो भूतानि न विनाशयेत्
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते
तुषभक्षं हि मां ज्ञात्वा प्रविविक्तजने गृहे
बिभ्रतं गार्दभं रूपमागम्य परिगर्हसि
इच्छन्नहं विकुर्यां हि रूपाणि बहुधाऽऽत्मनः
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे
कालस्सर्वं समादत्ते कालस्सर्वं प्रयच्छति
कालेन विधृतं सर्वं मा कृथाश्शक्र पौरुषम्
पुरा सर्वं प्रद्रवन्ते मयि क्रुद्धे पुरन्दर
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः
प्रभवश्चाप्रभावश्च नात्मसंस्थः कदाचन
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव
नमस्तस्यै दिशायै तु यस्यां वैरोचनो बलिः
इति मामभ्यनन्दन्त बुद्धिमात्सर्यमोहिताः
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते
एवं मे निश्चिता बुद्धिः विधेस्तिष्ठाम्यहं वशे
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्
दुःखं जीवन्सहामात्यैर्भवितव्यं हि तत्तथा
दौष्कुलेयस्तथा मूढो दुर्जातश्शक्र दृश्यते
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते
अलक्षणा विरूपा च सुभगा शक्र दृश्यते
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम्
न कर्म तव नान्येषां कुतो मम शतक्रतो
ऋद्धिरप्यथवाऽनृद्धिः पर्यायकृतमेव तत्
पश्यामि त्वां विराजन्तं देवराजमवस्थितम्
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि
एवं नैतन्न चेत्कालो मामाक्रम्यास्थितो भवेत्
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः
कालस्स्थापयते सर्वं कालः पचति वै तथा
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम्
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति
द्वादशानां तु भवतामादित्यानां महात्मनाम्
तेजांस्येकेन सर्वेषां देवराज धृतानि मे
अहमेवोद्वहाम्यापो विसृजामि च वासव
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च
संरक्षामि विमुञ्चामि ददाम्यहमथाददे
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते
पर्यायेण हि भुज्यन्ते लोकाश्शक्र यदृच्छया
मासार्धमासवेश्मानमहोरात्राभिसंवृतम्
ऋतुद्वारं वायुमुखमाहुर्वेदविदो जनाः
आहुस्सर्वमिदं चिन्त्यं जनाः केचिन्मनीषिणः
अस्याः पञ्चैव चिन्तायाः पर्येष्याणि च पञ्चधा
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा
अनादिनिधनं प्राहुरक्षरं परमेव च
सत्त्वेषु लिङ्गमावेद्यमलिङ्गमपि तत्स्वयम्
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः
यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
तं कालमभिजानीहि यस्य सर्वमिदं वशे
भूतानां तु विपर्यासं मन्यन्ते गतिनिश्चयात्।
न ह्येतावद्भवेद्ग्राम्यं न यस्याः प्रकृतेः पुनः
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम्
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा
बहूनीन्द्रसहस्राणि समतीतानि वासव
बलवीर्योपपन्नानि यथैव त्वं शचीपते
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम्
प्राप्ते काले महावीर्यः कालस्संशमयिष्यति
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्
स्थिता मयीति तन्मिथ्या नैषाऽप्येकत्र तिष्ठति
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम्
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप
मैवं शक्र पुनः कार्षीश्शान्तो भवितुमर्हसि
त्वामप्येवं गतं हित्वा क्षिप्रमन्यं गमिष्यति