युधिष्ठिरः-
केचिदाहुर्द्विधा लोके त्रिधा राजन्ननेकधा
न प्रत्ययो न चान्यच्च दृश्यते ब्रह्म नैव तत्
नानाविधानि शास्त्राणि उक्ताश्चैव पृथग्विधाः
किमधिष्ठाय तिष्ठामि तन्मे ब्रूहि पितामह
भीष्मः-
स्वेस्वे युक्ता महात्मानश्शास्त्रेषु प्रभविष्णवः
वर्तन्ते पण्डिता लोके को विद्वान्कश्च पण्डितः
सर्वेषां तत्वमज्ञाय यथारुचि तथा भवेत्
अस्मिन्नर्थे पुराभूतमितिहासं पुरातनम्
महाविवादसंयुक्तमृषीणां भावितात्मनाम्
हिमवत्पार्श्व आसीना ऋषयस्संशितव्रताः
षण्णां तानि सहस्राणि ऋषीणां गणमाहितम्
तत्र केचिद्ध्रुवं विश्वं सेश्वरं तु निरीश्वरम्
प्राकृतं कारणं नास्ति सर्वं नैवमिदं जगत्
अनेन चापरे विप्रास्स्वभावं कर्म चापरे
पौरुषं कर्म दैवं च यत्स्वभावादिरेव तम्
नानाहेतुशतैर्युक्ता नानाशास्त्रप्रवर्तकाः
स्वभावाद्ब्राह्मणा राजञ्जिगीषन्तः परस्परम्
ततस्तु मूलमुद्भूतं वादिप्रत्यर्थिसंयुतम्
पात्रदण्डविघातं च वल्कलाजिनवाससाम्
एके मन्युसमापन्नास्ततश्शान्ता द्विजोत्तमाः
वसिष्ठमब्रुवन्सर्वे त्वं नो ब्रूहि सनातनम्
नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान्प्रभुः
ते सर्वे सहिता विप्रा नारदं ऋषिमब्रुवन्
त्वं नो ब्रूहि महाभाग तत्वविच्च भवानसि
नाहं द्विजा विजानामि क्व हि गच्छाम सङ्गताः
इति तानाह भगवांस्ततः प्राह च स द्विजान्
को विद्वानिह लोकेऽस्मिन्न मोहोऽमृतमद्भुतम्
तच्च ते शुश्रुवुर्वाक्यं ब्राह्मणा ह्यशरीरिणः
सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति
द्विजवर्यः-
तमाह कश्चिद्विजवर्यसत्तमो विभाण्डको मण्डितवेदराशिः
कस्त्वं भवानर्थविभेदमध्ये न दृश्यसे वाक्यमुदीरयंश्च
भीष्मः-
अथाहेदं तं भगवान्सनन्तं महामुने विद्धि मां पण्डितोऽसि |
ऋषिं पुराणं सततैकरूपं यमक्षयं वेदविदो वदन्ति
पुनस्तमाहेदमसौ महात्मा स्वरूपसंस्थं वद आह पार्थ
त्वमेकोऽस्मदृषिपुङ्गवाद्य न सत्स्वरूपमथ वा पुनः किम्
अथाह गम्भीरतरानुवादं वाक्यं महात्मा ह्यशरीर आदिः
न ते मुने श्रोत्रमुखेऽपि चास्यं न पादहस्तौ प्रपदात्मके न
ब्रुवन्मुनीन्सत्यमथो निरीक्ष्य स्वमाह विद्वान्मनसा निगम्य
ऋषे कथं वाक्यमिदं ब्रवीषि न चास्य मन्ता न च विद्यते चेत्
न शुश्रुवुस्ततस्तत्तु प्रतिवाक्यं द्विजोत्तमाः
निरीक्षमाणा आकाशं प्रहसन्तस्ततस्ततः
आश्चर्यमिति मत्वा ते ययुर्हैमं महागिरिम्
सनत्कुमारसङ्काशं सगणा मुनिसत्तमाः
तं पर्वतं समारुह्य ददृशुर्ध्यानमाश्रिताः
कुमारं देवमर्हन्तं वेदपाराविवर्जितम्
ततस्संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम्
सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजास्स्थिताः
आगतान्भगवानाह ज्ञाननिर्धूतकल्मषः
सनत्कुमारः-
भीष्मः-
ज्ञातं मया मुनिगणा वाक्यं तदशरीरिणः
कार्यमद्य यथाकामं पृच्छध्वं मुनिपुङ्गवाः
तमब्रुवन्प्राञ्जलयो महामुनिं द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम्
ऋषयः-
कथं वयं ज्ञाननिधिं वरेण्यं यक्ष्यामहे विश्वरूपं कुमार
प्रसीद नो भगवञ्ज्ञानलेशं मधुप्रयाताय सुखाय सन्तः
यत्तत्पदं विश्वरूपं महामुने तत्र ब्रूहि किं तत्र महानुभाव
स तैर्वियुक्तो भगवान्महात्मा यस्सङ्गवान्सत्यवित्तच्छृणुष्व
अनेकसाहस्रकलेषु चैव प्रसन्नधातुं च शुभाज्ञया सत्
सनत्कुमारः-
यथाऽऽह पूर्वं युष्मासु ह्यशरीरी द्विजोत्तमाः
तथैव वाक्यं तत्सत्यमजानन्तश्च कीर्तितम्
शृणुध्वं-परमं कारणमस्ति कथमवगम्यते अहन्यहनि पाकविशेषो दृश्यते तेन मिश्रं सर्वं मिश्रयते यथा मण्डली दृशि सर्वेषामस्ति निदर्शनमस्ति चक्षुष्मताम् अस्ति ज्ञाने स्वरूपम् पश्यति यथा दर्पणान्तं निदर्शनम्
स एव सर्वं विद्वान्न बिभेति न गच्छति कुत्राहं कस्य नाहं केन केनेत्यवर्तमानो विजानाति
स युगतो व्यापी स पृथक्स्थितः तदपरमार्थः
यथा वायुरेकस्सन्बहुधेरितः आश्रयविशेषो वा यस्याश्रयं यथावद्द्विजे मृगे व्याघ्रे च मनुजे वेणुसंश्रयो भिद्यते वायुरथैकः आत्मा तथाऽसौ परमात्माऽसावन्य इव भाति
एवमात्मा स एव गच्छति सर्वमात्मा पश्यञ्शृणोति न च घ्राति न भाषते
चक्रेऽस्य तं महात्मानं परितो दश रश्मयः
विनिष्क्रम्य यथा सूर्यमनुगच्छन्ति तं प्रभुम्
दिने दिनेऽस्तमभ्येति पुनरुद्गच्छते दिशः
तावुभौ न रवौ चास्तां तथा वित्त शरीरिणम्
पतिते वित्त विप्रेन्द्रं भक्षणे चरणे परः
ऊर्ध्वमेकस्तथाऽधस्तादेकस्तिष्ठति चापरः
हिरण्यसदनं ज्ञेयं समेत्य परमं पदम्
आत्मना ह्यात्मदीपं तमात्मनि ह्यात्मपूरुषम्
सञ्चितं सञ्चितं पूर्वं भ्रमरो वर्तते भ्रमम्
योऽभिमानीव जानाति न मुह्यति न हीयते
न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा पश्यति रुपमस्य
न शुक्लं न कृष्णं परमार्थभावं गुहाशयं ज्ञानदेवीकरस्थम्
ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः
इज्यते यस्तु मन्त्रेण यजमानो द्विजोत्तमः
नैव धर्मी न चाधर्मी द्वन्द्वातीतो विमत्सरः
ज्ञानतृप्तस्सुखं शेते ह्यमृतात्मा न संशयः
एवमेष जगत्सृष्टिं कुरुते मायया प्रभुः
न जानाति विमूढात्मा कारणं चात्मनो ह्यसौ
ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान्स एव सः
को विद्वान्परमात्मानमनन्तं लोकभावनम्
यत्तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुङ्गवाः
भीष्मः-
एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसम्भवम्
सनत्कुमारं सन्दृष्ट्वा जग्मुस्ते रुचिरं पुनः
तस्मात्त्वमपि कौन्तेय ज्ञानयोगपरो भव
ज्ञानमेवं महाराज सर्वदुःखविनाशनम्
इदं महादुःखसमाकराणां नृणां परित्राणविनिर्मितं पुरा
पुराणपुंसा ऋषिणा महात्मना महामुनीनां प्रवरेण तद्ध्रुवम्