युधिष्ठिरः-
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः
अन्नं ब्राह्मणकामाय कथमेतत्पितामह
भीष्मः-
अवेदोक्तव्रतोपेता भुञ्जानाः कामचारिणः
वेदोक्तेषु च भुञ्जाना व्रतयुक्ता युधिष्ठिर
युधिष्ठिरः-
यदिदं तप इत्याहुरुपवासं पृथग्जनाः
एतत्तपो महाराज उताहोऽन्यत्तपो भवेत्
भीष्मः-
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः
आत्मतन्त्रोपघातस्स न तपस्तत्सतां मतम्
त्यागश्च सन्नतिश्चापि शिष्यते तप उत्तमम्
सदोपवासी स भवेद्ब्रह्मचारी सदा भवेत्
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भवेत्
कुटुम्बिको धर्मपरतस्सदाऽस्वप्नश्च भारत
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत्
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः
युधिष्ठिरः-
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत्
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः
भीष्मः-
अन्तरा प्रातराशं च सायमाशं तथैव च
सदोपवासी स भवेद्यो न भुङ्क्ते कदाचन
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
ऋतवादी स भवति मौननित्यश्च यो नरः
अभक्षयन्वृथा मांसममांसाशी भवेत्तदा
दाननित्यः पवित्री स्यादस्वप्नश्च दिवाऽस्वपन्
भृत्यादिषु च यो भुङ्क्ते भुक्तवत्सु सदा नरः
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर
अभुक्तवत्सु भुञ्जानो विषमश्नाति वै द्विजः
अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोतिथिप्रियः
अदत्त्वाऽन्नं दैवतेभ्यो यो न भुङ्क्ते स दैवतम्
अभोजनेन तेनास्य जितस्वर्गो भवत्युत॥
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिस्सह
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम्
तेषां लोका ह्यपर्यन्तास्स्यन्दन्ते ब्रह्मणा सह
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः
देवताभिश्च ते सार्धं पितृभ्यश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा