युधिष्ठिरः-
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत
भीष्मः-
दममेव प्रशंसन्ति वृद्धाश्श्रुतिसमाधयः
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते
क्रियास्तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम्
दमस्तेजो वर्धयति पवित्रं दम उच्यते
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं लोके विपर्येति मनश्चास्य प्रसीदति
तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति
क्रव्याद्भ्य इव भूतानामदान्तेभ्यस्सदा भयम्
तेषां विप्रतिषेधार्थं राजा सृष्टस्स्वयम्भुवा
आश्रमेषु च सर्वेषु दम एव विशिष्यते
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते
तेषां वक्ष्यामि लिङ्गानि येषां समुदयो दमः
अकार्पण्यमसंरम्भस्सन्तोषश्श्रद्दधानता
अक्रोध आर्जवं नित्यं नातिवादो विमानिता
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम्
जनवादस्तुतिनिन्दा नार्जवं च विवर्जनम्
साधुकामाश्चास्पृहयन्नायतिप्रत्ययो नृषु
अवैरकृत्सूपचारस्समो निन्दाप्रशंसयोः
सुवृत्तश्शीलसम्पन्नस्सुप्रसन्नात्मावाञ्शुचिः
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम्
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसिद्ध्यति
अभयं सर्वभूतेभ्यस्सर्वेषामभयं यतः
नमस्यस्सर्वभूतानां दान्तो भवति मानवः
न प्रहृष्येन्महत्यर्थे व्यसने च न शोचति
यश्चाऽपरिमितप्रज्ञस्स दान्तो द्विज उच्यते
कर्मभिश्श्रुतसम्पन्नस्सद्भिराचरितश्शुचिः
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम्
अनसूया क्षमा शान्तिस्सन्तोषः प्रियवादिता
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्
कामः क्रोधश्च लोभश्च परस्येर्ष्या विकत्थनम्
दम्भो दर्पश्च मानश्च नैष मार्गो महात्मनाम्
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः
विक्रम्य घोरे तपसि ब्राह्मणस्संशितव्रतः
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्