युधिष्ठिरः-
किं कारणं महाप्राज्ञ दह्यमानश्च मैथिलः
मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम्
भीष्मः-
श्रूयतां नृपशार्दूल यदर्थं दीपिता पुरा
वह्निना दीपिता सा तु तन्मे शृणु महामते
जनको जनदेवस्तु कर्माण्याध्याय चात्मनि
सर्वभावमनुप्राप्य भावेन विचचार सः
यजन्ददंस्तथा जुह्वन्पालयन्पृथिवीमिमाम्
अध्यात्मविन्महाप्राज्ञस्तन्मयत्वेन निष्ठितः
स तस्य हृदि सङ्कल्पं ज्ञातुमैच्छत्स्वयं प्रभुः
सर्वलोकाधिपस्तत्र द्विजरूपेण संयुतः
मिथिलायां महाबुद्धिर्व्यलीकं किञ्चिदाचरन्
स गृहीत्वा द्विजश्रेष्ठैर्नृपाय प्रतिवेदितः
अपराधं समुद्दिश्य तं राजा प्रत्यभाषत
जनकः-
न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथञ्चन
मम राज्याद्विनिर्गच्छ यावत्सीमा भुवो मम
भीष्मः-
तच्छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह
ब्राह्मणः-
करिष्ये वचनं राजन्ब्रवीहि मम जानतः
का सीमा तव भूमेस्तु ब्रूहि धर्मं ममाद्य वै
भीष्मः-
तच्छ्रुत्वा मैथिलो राजा लज्जयाऽवनताननः
नोवाच वचनं विप्रं तत्वबुद्ध्या समीक्ष्य तत्
पुनः पुनश्च तं विप्रश्चोदयामास सत्वरम्
ब्राह्मणः-
भीष्मः-
ब्रूहि राजेन्द्र गच्छामि तव राज्याद्विवासितः
ततो नृपो विचार्यैवमाह ब्राह्मणपुङ्गवम्
जनकः-
आवासो वा न मेऽस्त्यत्र सर्वा वा पृथिवी मम
गच्छ वा तिष्ठ वा ब्रह्मन्निति मे निश्चिता मतिः
भीष्मः-
इत्युक्तस्स तथा तेन मैथिलेन द्विजोत्तमः
अब्रवीत्तं महात्मानं राजानं मन्त्रिभिर्वृतम्
ब्राह्मणः-
त्वमेवं पद्मनाभस्य नित्यं पक्षपदाहितः
अहो सिद्धार्थरूपोऽसि गमिष्ये स्वस्ति तेऽस्तु वै
भीष्मः-
इत्युक्त्वा प्रययौ विप्रस्तज्जिज्ञासुर्द्विजोत्तमान्
अदहच्चाग्निना तस्य मिथिलां भगवान्स्वयम्
प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः
जनैस्स परिपृष्टस्तु वाक्यमेतदुवाच ह
जनकः-
अनन्तं बत मे वित्तं भाव्यं मे नास्ति किञ्चन
मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते
भीष्मः-
तदस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम्
पुनस्सञ्जीवयामास मिथिलां तां द्विजोत्तमः
आत्मानं दर्शयामास वरं चास्मै ददौ पुनः
ब्राह्मणः-
धर्मे तिष्ठतु सद्भावो बुद्धिस्तेऽर्थे नराधिप
सत्ये तिष्ठस्व निर्विण्णस्स्वस्ति तेऽस्तु व्रजाम्यहम्
भीष्मः-
इत्युक्त्वा भगवांश्चैनं तत्रैवान्तरधीयत
एतत्ते कथितं राजन्किं भूयश्श्रोतुमिच्छसि