भीष्मः-
जनको जनदेवस्तु ज्ञापितः परमर्षिणा
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ
जनकः-
भगवन्यदि न प्रोक्तं सञ्ज्ञा भवति कस्यचित्
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः
भीष्मः-
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत्
पञ्चशिखः-
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते
अयं ह्यपि समाहारश्शरीरेन्द्रियचेतसाम्
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु
धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः
एष पञ्चसमाहारश्शरीरमपि नैकधा
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसङ्ग्रहः
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः
प्राणापानौ विकारश्च धातवश्चात्र निस्सृताः
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च भारत
एते ह्यामरणाद्युक्ताष्षड्गुणा ज्ञानसिद्धये
तेषु कर्मविसर्गश्च सर्वतत्वार्थदर्शनः
तत्राहुः परमं कर्म `बुद्धिरित्यव्ययं महत्
इमं गुणसमाहारमात्मभावेन पश्यतः
असम्यग्दर्शिनो दुःखमनन्तं नोपशाम्यति
अनात्मेति यदा दृष्टं नाहं न च ममेत्यपि
वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः
तत्तु सम्यङ्मतं नाम त्यागमात्रमनुत्तमम्
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम्
नित्यदुःखविनीतानां क्लेशदुःखवहो मतः
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि
सुखत्यागे तपोयोगस्सर्वत्यागे समापनम्
तस्य मार्गोऽयमद्वैधस्सर्वत्यागस्य दर्शितः
विप्रहाणाय दुःखानां दुर्गतिर्ह्यन्यथा भवेत्
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनष्षष्ठानि चेतसि
मनष्षष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाण्यपि
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्
प्रजनानन्दयोश्शेफो विसर्गे पायुरिन्द्रियम्
वाक्च शब्दविवेकार्था कृतिं पञ्चात्मिकां विदुः
एवमेकादशैतानि बुद्ध्या तूपहतं मनः
कर्णौ शब्दश्च तृप्तिश्च त्रयं श्रवणसङ्ग्रहे
तथा स्पर्शे तथा रूपे तथा च रसगन्धयोः
एवं पञ्चत्रिकाश्चैते गुणास्तदुपलब्धये
तेन यस्त्रिविधो भावः पर्यायात्समुपस्थितः
सात्विको राजसश्चैव तामसश्चापि ते त्रयः
त्रिविधा वेदना येषु प्रसृता सर्वसादिनी
प्रहर्षः प्रीतिरानन्दस्सुखं संशान्तचित्तता
अकुतश्चित्कुतश्चिद्वा चित्ततस्सात्विको गुणाः
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
अविवेकस्तथा मोहः प्रमादस्स्वप्नतन्द्रिता
कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यपेक्षेत तं तथा
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत्
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
खं च श्रोत्राश्रयीभूतं शब्दश्श्रोत्रं समाश्रितः
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत्
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत्
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः
आस्थितो युगपद्भावे व्यवहारस्स लौकिकः
इन्द्रियाण्युपसृत्यापि दृष्ट्वापूर्वश्रुतागमान्
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः
यस्तु मोहगतं चित्तमाशुसञ्चारमध्रुवम्
करोत्युपरतं काये तमाहुस्तामसं गुणम्
यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम्
एवमेष प्रसङ्ख्यातस्स्वकर्मप्रत्ययी गुणः
कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्विनिवर्तते
तेषामाहुस्समाहारं क्षेत्रमध्यात्मचिन्तकाः
स्थितो मनसि यो भावस्स वै क्षेत्रज्ञ उच्यते
एवं सति क उच्छेदश्शाश्वतो वा कथं भवेत्
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः
यथाऽर्णवं गता नद्यो व्यक्तिं जहति नाम च
न तु स्वतां नियच्छन्ति तादृशस्सत्वसङ्क्षयः
एवं सति कुतस्सञ्ज्ञा प्रेत्यभावे पुनर्भवेत्
प्रतिसम्मिश्रिते जीवे गृह्यमाणे च मध्यतः
इमां तु यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम्
दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गाम्
श्रुतिप्रमाणागममङ्गलैश्च युक्तो नरो मृत्युभयादतीतः
क्षीणे च पुण्ये विगते च पापे तयोर्निमित्ते च फले विनष्टे
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महर्ध्यसक्ताः
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्ठति पात्यमानः
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ठ इवाद्रिमृच्छन्
यथा रुरुश्शृङ्गमथो पुराणं हित्वा त्वचं वाऽप्युरगो यथैव
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम्
द्रुमं यथा वाऽप्युदके पतन्तमुत्सृज्य पक्षी प्रपतत्यसक्तः
तथा ह्यसौ सुखदुःखे विहाय मुक्तः पराद्धर्यां गतिमेत्यलिङ्गाम्
भीष्मः-
इदममृतपदं विदेहराजस्सवयमिह पञ्चशिखेन भाष्यमाणम्
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाऽभिवीक्ष्य
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः
इमं तु यः पठति विमोक्षनिश्चयं न हीयते सततमवेक्षते तथा
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः