युधिष्ठिरः-
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य बुद्धिमान्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
येन वृत्तेन धर्मज्ञस्स जगाम महत्सुखम्
जनको जनदेवस्तु मिथिलायां जनाधिप
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
तस्य स्म शतमाचार्या वसन्ति सततं गृहे
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः
स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चयः
आगमस्थस्स भूयिष्ठमात्मतत्त्वेन तुष्यति
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः
परिधावन्महीं कृत्स्नां जगाम मिथिलामपि
सर्वसन्न्यासधर्माणां तत्त्वज्ञानविनिश्चये
स पर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः
ऋषीणामाहुराचार्यं कामादवसितं नृषु
शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम्
यमाहुः कपिलं साङ्ख्याः परमर्षिं प्रजापतिम्
समेत्य तेन रूपेण विस्मापयितवान्स्वयम्
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्
पञ्चस्रोतसि यस्सत्रमास्ते वर्षसहस्रिकम्
तं समासीनमागम्य कापिलं मण्डलं महत्
पुरुषावस्थमव्यक्तं परमार्थमबोधयत्
इष्ट्वा सत्रेण संसिद्धो भूयश्च तपसाऽऽसुरिः
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्
तस्य पञ्चशिखश्शिष्यो मानुष्यवयसा धृतः
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी
तस्याः पुत्रत्वमागम्य स्त्रियास्स पिबति स्तनौ
ततस्स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
एतं मे भगवानाह कापिलेयस्य सम्भवम्
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
सामान्यं जनकं ज्ञात्वा धर्मज्ञानामनुत्तमम्
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
जनकस्त्वभिसंरक्तः कापिलेयस्य दर्शनात्
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्
तस्मै परमकल्याय प्रणताय च धर्मतः
अब्रवीत्परमं मोक्षं यतः साङ्ख्यं विधीयते
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत्
कर्मनिर्वेदमुक्त्वा हि सर्वनिर्वेदमब्रवीत्
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम्
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके
आगमात्परमस्तीति ब्रुवन्नपि पराजितः
आत्मना ह्यात्मनः क्लेशं जन्ममृत्युजरामयम्
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते
अजरोऽयममृत्युश्च राजाऽसौ मन्यते तथा
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे
कमधिष्ठाय तु ब्रूयाल्लोकयात्राविनिश्चयम्
प्रत्यक्षं हि तयोर्मूलं कृतान्तश्च तयोरपि
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न कश्चन
यत्र तत्रानुमानेऽस्मिन्कृतं भावयतोऽपि वा
नान्यो जीवश्शरीराद्धि नास्तिकानां मते मतः
रेतो वटस्य कणीका घृतपाकाधिवासनम्
जातिः स्मृतिरयस्कान्तस्सूर्यकान्तोऽग्निमोक्षणः
प्रेत्य भूत्वा व्ययश्चैव देवताभ्युपयाचनम्
मृते कर्मनिवृत्तिश्च प्रमाणत्वे कथं भवेत्
न त्वेते हेतवस्सन्ति ये केचिन्मूर्तिसंहिताः
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते
अविद्याकर्मतृष्णाभिः केचिदाहुः पुनर्भवम्
कारणं लोभमोहौ च दोषाणां च निषेवणम्
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम्
तृष्णासञ्जनितस्स्नेह एष तेषां पुनर्भवः
तस्मिन्मूढे च जग्धे च देहे मरणधर्मिणि
अन्योऽसौ म्रियते प्रेतस्तदाहुस्तत्वमक्षयम्
यदा स्वरूपतश्चान्यो जातितश्श्रुतितोऽर्थतः
कथमस्मिन्स इत्येवं सम्बोधस्स्यादसंहितः
एवं सति च का प्रीतिर्दानविद्यातपोबलैः
यद्यदाचरितं कर्म सर्वमत्र प्रवर्तते
यदि ह्ययमिहैवान्यैर्दुःखितैर्दुःखितो भवेत्
सुखितैर्सुखितो वाऽपि दृश्यो ह्यस्य विनिर्णयः
यदा हि मुसलैर्हन्युः शरीरं न पुनर्भवेत्
पृथग्ज्ञानं यदन्यच्च तेनैतन्नोपपद्यते
ऋतुसंवत्सरस्तिथ्यश्शीतोष्णे च प्रियाप्रिये
यथा हीमानि पश्यन्ति तादृशस्सत्वसङ्क्षयः
जरयाऽभिपरीतस्य मृत्युना न विनाशिना
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति
इन्द्रियाणि मनो वायुश्शोणितं मांसमस्थि च
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च
लोकयात्राविधानं च दानधर्मफलागमः
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः
इति सम्यङ्मनस्येते बहवस्सन्ति हेतवः
एतदास्तीदमस्तीति न कश्चित्प्रतिपद्यते
तेषां विमृशतामेवं तत्तत्समभिधावताम्
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्
एवमर्थैरनर्थैश्च दुःखितास्सर्वजन्तवः
आगमैरपकृष्यन्ते हस्तिनो हस्तिपैर्यथा
अर्थांस्तथाऽत्यन्तमुखावहांश्च लिप्सन्त एते बहवो विशुष्काः
महत्तरं दुःखमभिप्रपन्ना हित्वा सुखं मृत्युवशं प्रयान्ति
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा विनिवर्तते च
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनो ह्यस्य न कर्म विद्यते
भीष्मः-
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम्
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे