युधिष्ठिरः-
योगं मे परमं तात मोक्षस्य वद भारत
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः
चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत्
शिष्यः-
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम
संशयो मे महान्कश्चित्तं मे व्याख्यातुमर्हसि
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम्
कथं च सर्वभूतेषु समेषु द्विजसत्तम
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि
गुरुः-
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्
अध्यात्मं सर्वभूतानामागमानां च यद्वसु
वासुदेवस्सर्वमिदं विश्वस्य ब्रह्मणो मुखम्
सत्यं दानं तपो यज्ञस्तितिक्षा दम आर्जवम्
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम्
तदिदं ब्रह्म वार्ष्णोयमितिहासं शृणुष्व मे
ब्राह्मणो ब्राह्मणैश्श्राव्यो राजन्यः क्षत्रियैस्तथा
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः
अर्हस्त्वमसि कल्याणं वार्ष्णेयाध्यात्ममुत्तमम्
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्
त्रैलोक्ये सर्वभूतेषु चक्रवत्परिवर्तते
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम्
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान्
नागासुरमनुष्यांश्च सृजते मनसाऽव्ययः
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्
प्रलये प्रकृतिं यातान्युगादौ सृजते पुनः
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
अथ यद्यद्यथा भावि कालयोगाद्युगादिषु
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः
लेभिरे तपसा पूर्वमनुज्ञातास्स्वयम्भुवा
वेदविद्भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिः
भार्गवो नीतिशास्त्रं तु जगाद जगतां हितम्
गान्धर्वं नारदो वेद भारद्वाजो धनुर्ग्रहम्
देवर्षिचरितं गर्गो दत्तात्रेयश्चिकित्सितम्
न्यायतन्त्राण्यनेकानि तस्तैरुक्तानि वादिभिः
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते
अनाद्यनन्तं परं ब्रह्म न देवा नर्षयो विदुः
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः
नारायणादृषिगणास्तथा मुख्यास्सुरासुराः
राजर्षयः पुराणाश्च परमं दुःखभेषजम्
पुरुषाधिष्ठितान्भावान्प्रकृतिस्सूयते पुरा
हेतुयुक्तमतस्सर्वं जगत्सम्परिवर्तते
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः
प्रकृतिस्सूयते तद्वदानन्त्यान्नापचीयते
अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते
आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः
वायोस्तेजस्ततश्चाप अद्भ्यो हि वसुधोद्गता
मूलप्रकृतयोऽष्टौ तु जगदेतास्ववस्थितम्
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि
शब्दादिविषयाः पञ्च विकाराष्षोडशं मनः
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यथ
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि
शब्दस्स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः
रसज्ञाने तु जिह्वेयं व्याहृते वाक्यथैव च
इन्द्रियैर्विविधैर्युक्तं सर्वैर्व्यस्तं मनस्तथा
विद्यात्तु षोडशैतानि दैवतानि विभागशः
देहेषु ज्ञानकर्तारमुपासीनमुपासते
तद्वद्वारिगुणा जिह्वा घ्राणं तु पृथिवीगुणः
श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा
मनस्सत्वगुणं प्राहुस्सत्वमव्यक्तजं तथा
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान्
एते भावा जगत्सर्वं वहन्ति सचराचरम्
श्रिता विरजसं देवं यमाहुः परमं पदम्
नवद्वारं पुरं पुण्यमेतैर्भावैस्समन्वितम्
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते
अजरश्चामरश्चैव व्यक्ताव्यक्तोपदेशवान्
व्यापकस्सगुणी सूक्ष्मस्सर्वभूतगुणाश्रयः
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु
सोऽत्रं वेदयते वेद्यं स शृणोति स पश्यति
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम्
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते
तथैवात्मा शरीरस्थ ऋते योगान्न दृश्यते
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः
सन्तन्वानास्सदा यान्ति तथा देहाश्शरीरिणाम्
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते
कर्मणा व्याप्यते सर्वं कर्मणैवोपपद्यते
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा
स तु देही यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते
तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम्
चतुर्विधानि भूतानि चराणि स्थावराणि च
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः
यथाऽश्वत्थः कर्णिकायामन्तर्भूतो महाद्रुमः
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा
अभिद्रवत्ययस्कान्तमयोनिश्चेतनावुभौ
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम्
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः
अचेतनाश्चेतयितुः कारणादभिसङ्गताः
न भूः खं द्यौर्न भूतानि नर्षयो नासुरास्सुराः
नान्यदासीदृते जीवमासेदुर्न तु संहतिम्
सर्वं नित्यं सर्वगतं मनो हेतुत्वलक्षणम्
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम्
न कारणेन संयुक्तं कार्यसङ्ग्रहकारकम्
येन तद्वर्तते चक्रमनादिनिधनं महत्
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम्
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत्
तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः
कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम्
कार्यकारणसंयोगे स हेतुरुपपादितः
नात्येति कारणं कार्यं न कार्यं कारणं तथा
कार्ये ह्यनूनकरणे कालो भवति कारणम्
हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम्
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठितास्सदा
सत्वरजस्तामसैर्भावैर्युक्तो हेतुबलान्वितः
क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा
न च तैस्स्पृश्यते भावैर्न ते तेन महात्मना
सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत्
तथैतदन्तरं विद्यात्सत्त्वक्षेत्रज्ञयोर्बुधः
अभ्यासात्सततं युक्तो न गच्छेत्प्रकृतिं पुनः
सन्देहमेतमुत्पन्नमच्छिनद्भगवानृषिः
तथावात्तां समीक्षेत कृतलक्षणसंविदम्
बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः
निवृत्तिलक्षणो धर्मो येषां समुपपद्यते
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते
दुर्लभा वेदविद्वांसो वेदान्तेषु व्यवस्थिताः
प्रयोजनं महत्त्वं तु मार्गमिच्छन्ति सत्कृतम्
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्
इयं सा बुद्धिरन्यैव यया यायात्परां गतिम्
शरीरवानुपादत्ते मोहात्सर्वं परिग्रहम्
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्
कर्मणो विचयं कुर्वन्न लोकानाप्नुयाच्छुभान्
लोहयुक्तं तथा हेम विपक्वं न विराजते
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते
यश्चाधर्मं चरेन्मोहात्कामक्रोधावनुप्लुवन्
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति
शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत्
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात्
पञ्चभूतात्मके देहे सत्त्वराजसतामसे
कमभिष्टुवते चायं कं वा क्रोशति किं वदेत्
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः
नावगच्छन्त्यविज्ञानादात्मानं पार्थिवं गुणम्
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते
पार्थिवोऽयं तथा देहो मृद्विकारैर्न नश्यति
मधु तैलं पयस्सर्पिर्मांसानि लवणं गुडम्
धान्यानि फलमूलानि मृद्विकारास्सहाम्भसा
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्
श्रमादाहारमादद्यादस्वाद्वपि हि यापयन्
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च
क्षान्त्या धृत्या च मत्या च मनसा तपसैव च
भावान्सर्वान्यथावृत्तान्संसहेत यथाक्रमम्
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च
सत्त्वेन रजसा चैव तमसा चैव मोहिताः
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान्
अज्ञानप्रभवं नित्यमहङ्कारं परित्यजेत्
महाभूतानीन्द्रियाणि गुणास्सत्त्वं रजस्तमः
त्रैलोक्यं सेश्वरं सर्वमहङ्कारे प्रतिष्ठितम्
यथैव नियतः कालो दर्शयत्यार्तवान्गुणान्
तद्वद्भूतेष्वहङ्कारं विद्याद्भूतप्रवर्तकम्
सम्मोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम्
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्
प्रसादो हर्षजः प्रीतिरसम्मोहस्स्मृतिर्मतिः
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान्
कामः क्रोधः प्रमादश्च लोभमोहौ भयं क्लमः
विषादशोकावरतिर्मानदर्पावनार्यता
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम्
विमृशेदात्मसंस्थानमेकैकमनुसन्ततम्
शिष्यः-
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः |
के पुनः पुनरायान्ति के मोहादचला इव
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः
एतनन्मे संशयं तात छेत्तुमर्हस्यशेषतः
गुरुः-
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते
ते पुनः पुनरायान्ति ते मोहादचला इव
विनाशयति सम्भूतमयस्मयमयो यथा
तथाऽकृतात्मा सहजैर्दोषैर्नश्यति तामसैः
सहजैरविशुद्धात्मा दोषैर्नश्यति राजसैः
राजसं तामसं चैव शुद्धात्मा कालसम्भवम्
शमयेत्सत्त्वमास्थाय स्वबुद्ध्या केवलं द्विजः
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतां क्षमम्
तस्मादात्मवता वर्ज्यं रजश्च तम एव च
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्
आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि
अथ वा मन्त्रवद्ब्रूयुर्मांसादानं यजुष्कृतम्
स वै हेतुरनादाने शुद्धधर्मानुपालने
रजसा कामयुक्तानि कार्याण्यपि समाप्नुयात्
अर्थयुक्तानि चात्यर्थं सर्वान्न्कामांश्च सेवते
तमसा लोभयुक्तानि क्रोधजानि च सेवते
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः
सत्वस्थस्सात्विकान्भावाञ्शुद्धान्पश्यत्यमोहितः
स देही विमलश्श्रीमाञ्श्रद्धाविद्यासमन्वितः
रजसा साध्यते मोहस्तमश्चैव द्विजर्षभ
क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः
परमं परमात्मानं देवमक्षयमव्ययम्
विष्णुमव्यक्तसंस्थानं विशुद्धं देवमाप्नुयात्
तस्य मायापिनद्धाङ्गा ज्ञानभ्रष्टा निराशिषः
मानवा ज्ञानसम्मोहात्तत्तत्कामं प्रयान्ति वै
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः
मानाद्दर्पामहङ्कारमहङ्कारात्ततः क्रियाः
क्रियाभिस्स्नेहसम्बन्धं स्नेहाच्छोकमनन्तकम्
अथ दुःखसमारम्भाञ्जराजन्मकृतश्रमः
जन्मनो गर्भवासं तु शुक्लशोणितसम्भवम्
पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम्
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन्
संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः
तस्मादेता विशेषेण नरा नेयुर्विपश्चितः
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्
रजसा निहिता मूर्तिरिन्द्रियाणां सनातनी
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः
स्वदेहजानस्वसञ्ज्ञान्यद्वद्दुःखाकृमींस्त्यजेत्
स्वसञ्ज्ञानस्वकांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत्
शुक्लतो रसतश्चैव देहाज्जायन्ति जन्तवः
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान्
रजस्तमसि पर्यस्तं सत्वं रजसि स्थितम्
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम्
तद्बीजं देहिनामाहुस्तत्संस्थं जीवबन्धनम्
कर्मणा कालयुक्तेन संसारपरिवर्तकम्
रमतेऽयं यथा स्वप्ने मनसा देहवानिव
कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम्
जायते तदहङ्काराद्रागयुक्तेन चेतसा
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः
रूपरागात्तथा चक्षुर्घ्राणं गन्धजिघृक्षया
संस्पर्शेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः
व्यानोदानसमानाश्च पञ्चधा देहयापनम्
स जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः
दुःखाद्यन्तैर्दुःखमध्यैर्नरश्शारीरमानसैः
दुःखं विद्यादुपादानादभिमानाच्च वर्धते
त्यागात्तेभ्यो निरोधस्स्यान्निरोधज्ञो विमुच्यते
इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ
परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा
ज्ञात्वेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलाः
ज्ञातैश्च करणैर्देही न देहं पुनरर्हति
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा
तद्विज्ञानाच्चरन्राजन्प्राप्नोति परमां गतिम्
सर्वेषामेव भूतानां पुरुषश्श्रेष्ठ उच्यते
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः
सर्वभूतविशिष्टास्ते सर्वज्ञास्सर्वदर्शिनः
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः
तांस्तानुपासते धर्मान्धर्मकामा यथागमम्
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्
वाग्देहमनसां शौचं क्षमा सत्यं धृतिस्स्मृतिः
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान्
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्
लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम्
श्रोत्रेणाश्रवणं चैव चक्षुषा चाप्यदर्शनम्
वाक्सम्भाषाप्रवृत्ता च यन्मनः परिवर्जितम्
बुद्ध्या नाध्यवसायश्च ब्रह्मचर्यमकल्मषम्
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमस्सुरान्
द्विजाग्र्यो जायते विद्वान्राजसीं वृत्तिमास्थितः
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु
सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः
योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः
कथञ्चिद्दर्शनादासां दुर्बलानां विशेद्रजः
रागोत्पत्तौ चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम्
पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम्
ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम्
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायु चास्थि च
मज्जां चैव सिराजालैस्तर्पयन्ति रसं नृणाम्
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः
याभिस्सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः
एवमेताः सिरा नद्यो रसोदा देहसागरम्
तर्पयन्ति यथाकालमापगा इव सागरम्
मध्ये च हृदयस्यैका सिरा तत्र मनोवहा
शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगतास्सिराः
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः
शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः
स्वप्नेऽप्येवं यथाऽभ्येति मनस्सङ्कल्पजैर्द्विज
शुक्रमस्पर्शजं देहात्सृजत्यस्य मनोवहा
महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसम्भवम्
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते
ये वै शुक्रगतिं विद्युर्भूतसङ्घातकारिकाम्
विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम्
गुणानां साम्यमापद्य मनस्येव मनो दधत्
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते
भविता मनसो ज्ञानं मन एव प्रजायते
ज्योतिष्मद्विरजो दिव्यं मन्त्रसिद्धं महात्मनाम्
तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम्
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम्
सुदुर्गमिह पन्थानमाश्रित्य गुणबन्धनम्
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते
दुरन्तेष्विन्द्रियार्थेषु सक्तास्सीदन्ति जन्तवः
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्
जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसः क्लमैः
दृष्ट्वैव सन्ततं लोकं घटेन्मोक्षाय बुद्धिमान्
वाङ्मनोभ्यां शरीरेण शुचिस्स्यादनहङ्कृतः
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम्
अथ वा मनसस्सङ्गं पश्येद्भूतानुकम्पया
तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मवशं जगत्
यत्कृतं प्राक्छुभं कर्म पापं वा तदुपाश्नुते
तस्माच्छुभानि कर्माणि कुर्याद्वा बुद्धिकर्मभिः
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्
क्षमा दयाऽप्रमादश्च यस्यैते स सुखी भवेत्
यश्चैनं परमं धर्मं सर्वभूतसुखावहम्
दुःखान्निवारणं वेद तत्त्वज्ञस्स सुखी भवेत्
तस्मात्समाहितो भूत्वा मनो भूतेषु धारयेत्
नापथ्यायेन्न स्पृहयेन्न बुद्ध्या चिन्तयेदसत्
अथामोघप्रयत्नेन मनो ज्ञाने प्रवर्तयेत्
विवेचयित्वा तद्वाक्यं धर्मसूक्ष्ममवेक्ष्य च
सत्यां वाचमहिंस्रां च वदेदनपवाकारिणीम्
कल्कापेतामपरुषामनृशंसामपैशुनाम्
विवक्षता हि सद्वाच्यं धर्मसूक्ष्ममवेक्षता
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा
वाक्प्रबन्धान्हि संरोषाद्विरुद्धान्व्याहरेद्यदि
बुद्ध्या ह्यनुगृहीतेन मनसा कर्म तामसम्
रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते
दुःखं प्राप्य च लोकेऽस्मिन्नरकायोपपद्यते
तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः
प्रकीर्ण एव भारो हि यद्वद्धार्येत दस्युभिः
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा
तानेव च यथा दस्यून्हत्वा गच्छेच्छिवां दिशम्
तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम्
निस्सन्दिग्धमनीहो वै मुक्तस्सर्वपरिग्रहैः
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्
निष्प्रचारेण मनसा परं तदधिगच्छति
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम्
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसाऽऽत्मनः
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे
देवतास्ताः प्रसीदन्ति हृष्टा यान्ति तमीश्वरम्
ताभिस्संयुक्तमनसो ब्रह्म तत्सम्प्रकाशते
शनैश्चोपगते सत्त्वे ब्रह्मभूयाय कल्पते
अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्
योगतन्त्रमयं तन्त्रं वृत्तं स्यात्तत्तदाचरेत्
कणपिण्याककुल्माषशाकयावकसक्तवः
तथा मूलफलं भैक्ष्यं पर्यायेणोपयोजयेत्
आहारनियमं चैव देशे काले च सात्विकः
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम्
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्
ज्ञानैधितं तथा ज्ञानमर्कवत्सम्प्रकाशते
ज्ञानाधिष्ठानमज्ञानं त्रील्लोँकानधितिष्ठति
विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते
पृथक्त्वात्सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम्
स तयोरपवर्गज्ञो वीतरागो विमुच्यते
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम्
निष्कल्मषं ब्रह्मचर्यमिच्छताचरितुं सदा
निद्रा सर्वात्मना त्याज्या स्वप्नदोषमवेक्षता
स्वप्ने हि रजसा देही तमसा चाभिभूयते
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः
ज्ञानाभ्यासाज्जागरिता जिज्ञासार्थमनन्तरम्
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा
अत्राह कोन्वयं भावः स्वप्ने विषयवानिव
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः
इन्द्रियाणां श्रमात्स्वप्नमाहुस्सर्वगतं मनः
मनसस्त्वप्रलीनत्वात्तत्तदाहुर्निदर्शनम्
कार्ये चासक्तमनसस्सङ्कल्पो जाग्रतो ह्यपि
यद्वन्मनोरथैश्चर्यं स्वप्ने तद्वन्मनोगतम्
संसाराणामसङ्ख्यानां कामात्मा तदवाश्नुते
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः
गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम्
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा
ततस्तदुपवर्तन्ते गुणा राजसतामसाः
सात्त्विका वा यथायोगमानन्तर्यफलोदयाः
ततः पश्यन्त्यसम्बन्धान्वातपित्तकफोत्तरान्
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरत्ययम्
प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम्
तत्तत्स्वप्नेप्युपरते मनो बुद्धिर्निरीक्षते
व्यापकं सर्वभूतेषु वर्तते दीपवन्मनः
मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम्
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम्
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः
लिप्सेत मनसा यश्च सङ्कल्पादैश्वरं गुणम्
आत्मप्रसादात्तं विन्देत्सर्वा ह्यात्मनि देवताः
एवं हि तपसा युञ्ज्यादर्कवत्तमसः परम्
त्रैलोक्यप्रकृतिं देही तमसोऽन्ते महेश्वरम्
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः
एतद्दैवासुरैर्गुप्तं ज्ञानाज्ञानस्यलक्षणम्
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ
ब्रह्म तत्परमं ज्ञानममृतं ज्योतिरक्षरम्
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम्
हेतुमच्छक्लमाख्यातमेतावज्ज्ञानचक्षुषा
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम्
न स वेद परं ब्रह्म यो न वेद चतुष्टयम्
व्यक्ताव्यक्ते प्रवृत्तं च निवृत्तं धर्ममुत्तमम्
व्यक्तं मृत्युपदं विद्यादव्यक्तममृतं पदम्
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्
तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः
तां गतिं परमामेति निवृत्तिपरमो मुनिः
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शनः
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम्
तं विशेषमवेक्षेत विशेषेण विचक्षणः
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि
उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्
प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्तया
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम्
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्
क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम्
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते
कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेष ह्यसाविति
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः
संवृतोऽयं तथा देही सत्त्वराजसतामसैः
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम्
तथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति
श्रियं दिव्याश्रयां दिव्यामभिप्रेप्सुमनाश्शुचिः
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता
सूर्याचन्द्रमसौ चैव भासतस्तपसा दिवि
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम्
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
वाङ्मनोनियमस्सम्यङ्मानसं तप उच्यते
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं तपस्विभिः
आहारनियमेनास्य पाप्मा शाम्यति राजसः
वैमनस्यं च विषये यान्त्यस्य करणानि च
तस्मात्तन्मात्रमादद्याद्यावदस्य प्रयोजनम्
अन्तकाले च नोपेक्षां शनैः कुर्यादनातुरः
एवं युक्तेन मनसा ज्ञानं समुपपद्यते
रसवर्जो ह्ययं देही देहवाञ्छब्दवांश्चरेत्
काम्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः
आदेहादप्रमादाच्च देहान्ते विप्रमुच्यते
हेतुयुक्तस्सदोत्सर्गो भूतानां प्रलयस्तथा
परप्रत्ययसर्गे तु निश्चयश्च निवर्तते
एवं तत्प्रभवां प्रज्ञामासते ये विपर्ययम्
धृत्या देहं धारयन्तो बुद्धिसङ्क्षिप्तचेतसः
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते
यथागतं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्श्रयः
युक्तो धारणया केचित्सत्यं केचिदुपासते
अभ्यस्यन्त्यपरे देवं विद्यासंशब्दिताक्षरम्
अन्तकालेऽप्युपासन्तस्तपसा दग्धकिल्बिषाः
सर्व एते महात्मानो गच्छन्ति परमां गतिम्
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा
देहं तु चरमं विद्याद्विमुक्तपरिग्रहम्
अन्तरिक्षादन्यतरं धारणासक्तचेतसः
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तमानसाः
ब्रह्मभूता विरजसस्ते यान्ति परमां गतिम्
एवमेकायनं धर्ममाहुर्वेदविदो जनाः
यथाज्ञानमुपासन्तस्ते यान्ति परमां गतिम्
कषायवर्जितं ज्ञानं तेषामुत्पद्यतेऽमलम्
यान्ति तेऽपि पराँल्लोकान्विशुध्यन्तो यथाबलम्
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम्
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः
ज्ञात्वाऽऽत्मस्थं परं चैव न निवर्तन्ति तेऽव्ययाः
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम्
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते
बिसतन्तुर्यथैवायमन्तस्थस्सन्ततो बिसे
तृष्णातन्तुरनाद्यन्तस्तथा देहगतस्सदा
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते
विकारं प्रकृतिं चैव पुरुषं च सनातनम्
यो यथावद्विजानाति स वितृष्णो विमुच्यते
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्
भूतानामनुकम्पायै जगाद जगतो हितम्