युधिष्ठिरः-
पितामह महाप्राज्ञ युधि सत्यपराक्रम
श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम्
यच्चास्य तेजस्सुमहद्यच्च कर्म पुरातनम्
तन्मे सर्वं यथातत्त्वं ब्रूहि त्वं पुरुषर्षभ
तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः
केन कार्यनिसर्गेण तन्मे ब्रूहि पितामह
भीष्मः-
पुराऽहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि
प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम्
कथैषा कथिता तत्र कश्यपेन महर्षिणा
मनःप्रह्लादिनीं दिव्यां तामिहैकमनाश्शृणु
काश्यपः-
धर्मो हि भगवान्विष्णुर्वराहो यज्ञरूपधृक्
तन्मयश्च जगत्सर्वमात्मा सर्वस्य चात्मवान्
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः
बलेन मत्ताश्शतशो नरकाद्या महासुराः
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम्
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा
न शर्म लेभिरे राजन्क्लिश्यमानास्सहस्रशः
पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः
दानवैरभिसङ्कीर्णां घोररूपैर्महाबलैः
भारार्तामकृष्टां च दुःखितां श्नतिमिच्छतीम्
देवाः-
अथादितेयास्सन्त्रस्ता ब्रह्माणमिदमब्रुवन्
कथं शक्ष्यामहे ब्रह्मन्दानवैरभिमर्दनम्
काश्यपः-
स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया
ते वरेणाभिसम्मत्ता बलेन च मदेन च
नावबुद्ध्यन्ति सम्मूढा विष्णुमव्यक्तदर्शनम्
वराहरूपिणं देवमधृष्यममरैरपि
एष वेगेन गत्वा वै यत्र ते दानवाधमाः
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः
शमयिष्यति तच्छ्रुत्वा जहृषुस्सुरसत्तमाः
ततो विष्णुर्महातेजा वाराहं रूपमास्थितः
अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति
दृष्ट्वा च सहितास्सर्वे दैत्यास्सत्वममानुषम्
प्रसह्य सहितास्सर्वे सन्तस्थुः कालचोदिताः
सर्वे च समभिद्रुत्य वराहं जगृहुस्समम्
सङ्क्रुद्धाश्च वराहं ते कर्षयन्तततस्ततः
दानवेन्द्रा महावीर्या महाकाया बलोद्धताः
नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभोः
ततोऽगमन्विस्मयं ते दानवेन्द्रा भयार्दिताः
संशयं गतमात्मानं मेनिरे च सहस्रशः
ततो देवादिदेवस्स योगात्मा योगसारथिः
योगमास्थाय भगवांस्तदा भरतसत्तम
विननाद महानादं क्षोभयन्दैत्यदानवान्
सन्नादिता येन लोकास्सर्वाश्चैव दिशो दश
तेन सन्नादशब्देन लेभिरे क्षोभमात्मनः
सम्भ्रान्ताश्चाभवन्सर्वे देवाश्शक्रपुरोगमाः
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा
स्थावरं जङ्गमं चापि तेन नादेन मोहितम्
ततस्ते दानवास्सर्वे तेन नादेन भीषिताः
पतिता गतासवश्चैव विष्णुतेजोविमोहिताः
रसातलगतांश्चैव वराहस्त्रिदशद्विषः
खुरैस्स दारयामास मांसमेदोस्थिसञ्चयान्
नादेन तेन महता सनातन इति स्मृतः
पद्मनाभो महायोगी भूताचार्यस्स भूतराट्
ततो देवगणास्सर्वे पितामहमुपाद्रवन्
समागम्य महात्मानमूचुश्चैनं जगत्पतिम्
देवाः-
नादोऽयं कीदृशो देव नैनं विद्म वयं प्रभो
कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत्
देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः
उदतिष्ठत्तदा देवस्स्तूयमानो महर्षिभिः
पितामहः-
निहत्य दानवपतीन्महावर्ष्मा महाबलः
एष देवो महायोगी भूतात्मा भूतभावनः
सर्वभूतेश्वरो योगी मुनिरात्मा तथाऽऽत्मनः
स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः
कृत्वा कर्म तु साध्वेतन्निनदत्यमितप्रभः
समायातस्स्वमात्मानं महाभागो महाद्युतिः
पद्मनाभो महायोगी भूतात्मा भूतभावनः
न सन्तापो न भीः कार्या शोको वा सुरसत्तमाः
विधिरेष प्रभावश्च कालस्सङ्क्षयकारकः
लोकान्धारयताऽनेन नादो मुक्तो महात्मना
स एष हि महाभागस्सर्वलोकनमस्कृतः
अच्युतः पुण्डरीकाक्षस्सर्वभूतसमुद्भवः