युधिष्ठिरः-
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च
भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः
प्रजापतिश्श्रेष्ठतमः प्रजानां देवर्षिसङ्घप्रवरं महर्षिः
बृहस्पतिं प्रश्नमिमं पुराणं प्रपच्छ शिष्योऽथ गुरुं प्रणम्य
मनुः-
यत्कारणं मन्त्रविधिप्रयुक्तं ज्ञाने फलं यत्प्रवदन्ति विप्राः
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत्
यत्स्तोत्रशस्ताग्रहमन्त्रविद्भिर्यज्ञैरनेकैर्धनगोप्रदानैः
फलं महद्भिर्यदवाप्यते च किं तत्कथं वा भविता क्व वा तत्
मही महीजाः पवनोऽन्तरिक्षं जलौकसोऽग्निश्च जलं तथा द्यौः
दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम्
ज्ञानं महत्प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः
न चेदहं वेद्मि परं पुराणं मिथ्याप्रवृत्तिं च कथं न कुर्याम्
ऋक्सामसङ्घांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम्
अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि
बृहस्पतिः-
स मे भवाञ्शंसतु सर्वमेतज्ज्ञाने फलं कर्मणि वा यदेति
यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाऽभ्युपैति
यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम्
इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः
इष्टं त्वनिष्टं च शुभाशुभं च साशीस्तश्छन्दसि कर्मभिश्च
एभिर्विमुक्तः परमाविवेश एतत्कृते कर्मविधिः प्रवृत्तः
आत्मादिभिः कर्मभिरिज्यमानो धर्मेषु युक्तो द्युतिमान्सुखार्थी
परं हि तत्कर्मपथादपेतं निराशिषो यत्पदमाप्नुवन्ति
प्रजास्सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्पथौ लोकजुष्टौ
दृष्ट्वा कर्माशाश्वतं चान्तवच्च मनस्त्यागे कारणं नान्यदस्ति
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा
ज्ञानं तु विज्ञानगुणोपपन्नं कर्माशुभं पश्यति वर्जनीयम्
सर्पान्कृशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति
अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम्
कृत्स्नश्च मन्त्रा विधिवत्प्रयुक्तो यज्ञा यथोक्तास्सह दक्षिणाश्च
अन्नप्रदानं मनसस्समाधिः पञ्चात्मकं कर्मफलं वदन्ति
गुणागुणं कर्म वदन्ति वेदास्तेभ्यो मन्त्रा मन्त्रमूलं हि कर्म
विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु तथा शरीरी
शब्दाश्च रूपाणि रसाश्च पुण्यास्स्पर्शाश्च गन्धाश्च शुभास्तथैव
नरो रहस्स्थानगतः प्रभुस्स्यादेतत्फलं सिद्ध्यति कर्मणोऽस्य
यद्यच्छरीरेण करोति कर्म शरीरयुक्तस्समुपाश्नुते तत्
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्
वाचा च यत्कर्म करोति किञ्चिद्वाचैव सर्वं समुपाश्नुते तत्
मनस्तु यत्कर्म करोति किञ्चिन्मनस्स्थमेवेदमुपाश्नुते तत्
यथागुणं कर्मगुणं फलार्थी करोत्ययं कर्मफले निविष्टः
तथा तथाऽयं गुणसम्प्रयुक्तश्शुभाशुभं कर्मफलं स भुङ्क्ते
मत्स्यो यथा स्रोत इवाभियाती तथा कृतं पूर्वमुपैति कर्म
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमश्शरीरी
यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम्
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शणु मे परं यत्
रसैर्विमुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं सजति प्रजानाम्
न स्त्री पुमान्नापि नपुंसकं वा न सन्न चासत्सदसच्च तन्न
पश्यन्ति तद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि
अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम्
जलात्प्रसूता जगती जगत्या जायते जगत्
इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनान्तरिक्षे
खाद्वै निवर्तन्ति न भाविनस्ते ये भाविनस्ते परमाप्नुवन्ति
नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम्
न शब्दवन्नापि च गन्धवच्च न रूपवत्तत्परमस्वभावम्
स्पर्शं तनुर्वेद रसं च जिह्वा घ्राणं च गन्धं श्रवणं च शब्दम्
रूपाणि चक्षुर्न च तत्परं यद्गृह्णन्त्यनध्यात्मविदो मनुष्याः
निवर्तयित्वा रसनां रसेभ्यो घ्राणं च गन्धाच्छ्रवणं च शब्दात्
स्पर्शात्तनुं रूपगुणाच्च चक्षुस्ततः परं पश्यति तं स्वभावम्
यतो गृहीत्वा हि करोति यद्यद्यस्मिंश्च यामारभते प्रवृत्तिम्
यस्मै च यद्येन च यश्च कर्ता यत्कारणं तं स्वमुपेयमाहुः
यच्चापि पूर्वापरसाधकं च यन्मन्त्रमर्चिष्यति सर्वलोकः
यस्सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत्
यथा च कश्चित्सुकृतैर्मनुष्यश्शुभाशुभं प्राप्नुते चाविरोधात्
एवं शरीरेषु शुभाशुभेषु स्वकर्मभिर्ज्ञानमिदं निबद्धम्
यथा प्रदीप्तः पुरतः प्रदीप्तः प्रकाशमर्थस्य करोति विद्वन्
तथैव पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव
यथा च राज्ञो बहवो ह्यमात्याः पृथक् प्रमाणं प्रवदन्ति युक्ताः
तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशाः परमस्स एभ्यः
यथार्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः
गच्छन्ति चायान्ति च सन्ततास्तु तद्वच्छरीराणि शरीरिणां तु
यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे
तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत्
तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च काष्ठे
तद्वत्सुबुद्धिं सममिन्द्रियार्थैर्बुधः परं पश्यति तं स्वभावम्
यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत्
श्रोत्रादियुक्तस्सुमनास्सुबुद्धिर्लिङ्गात्तथा गच्छति लिङ्गमन्यत्
उत्पत्तिवृद्धिक्षयसन्निपातैर्न युज्यतेऽसौ परमश्शरीरी
अनेन लिङ्गेन तु लिङ्गमन्यद्गच्छत्यदृष्टः प्रतिसन्धियोगात्
न चक्षुषा पश्यति चक्षुरात्मनो न चापि संस्पर्शमुपैति किञ्चित्
तथाऽपि तैस्साधयते च कार्यं ते तं न पश्यन्ति स पश्यते तान्
यथा समीपे ज्वलतोऽनलस्य सन्तापजं रूपमुपैति कश्चित्
न चान्तरा रूपगुणं बिभर्ति तथैव तद्दृश्यते रूपमस्य
तथा मनुष्यः परिमुच्य कायमदृश्यमन्यद्विशते शरीरम्
विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम्
खं वायुमग्निं सलिलं तथोर्वीं समन्ततोऽभ्याविशते शरीरी
नान्याश्रयाः कर्मसु वर्तमानाश्श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते
श्रोत्रं नभो घ्राणमुक्तं पृथिव्यास्तेजोमयं चक्षुरथो विपाकः
जलाश्रयं तेज उक्तं रसश्च वाय्वात्मकं स्पर्शनमामनन्ति
महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च रथेन्द्रियेषु
सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मनस्स्वभावम्
शुभाशुभं कर्म कृतं यदस्य तदेव प्रेत्याददतेऽन्यदेहे
मनोऽनुवर्तन्ति परावराणि जलौकसस्स्रोत इवानुकूलम्
चलं यथा दृष्टिपथं प्रयाति सूक्ष्मं महद्रूपमिवावभाति
स्वरूपमालोकयतां च रूपं परं तथा बुद्धिपथं परैति
यदिन्द्रियैस्तूपगतैः पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय
तेष्विन्द्रियेषूपहतेषु पश्चात्स बुद्धिरूपः परमस्स्वभावः
य इन्द्रियार्थान्युगपत्समन्तान्नावेक्षते कृत्स्नशस्तुल्यकालम्
यथाक्रमं सञ्चरते स विद्वांस्तस्मात्स एकः परमश्शरीरी
रजस्तमस्सत्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान्
तथेन्द्रियाण्याविशतीह देही हुताशनं वायुरिवेन्धनस्थम्
न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्
न श्रोत्रलिङ्गं श्रवणेन दर्शनं तथा न तत्पश्यति तद्विनश्यति
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना
सर्वज्ञस्सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ
अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता
पश्यन्नपि यथा लक्ष्म जनस्सोमेन विन्दति
एवमस्ति न चोत्पन्न न च तन्न परायणम्
रूपवन्तमरूपत्वादुदयास्तमने बुधाः
धिया समनुपश्यन्ति तद्गतास्सवितुर्गतिम्
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम्
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते
तद्वन्मूर्तिविमुक्तोस्सञ्शरीरी नोपलभ्यते
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः
तद्वल्लिङ्गान्तरं प्राप्य शरीरी राजते पुनः
जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः
विसृजेच्चोपसर्पेच्च तद्वत्पश्य शरीरिणम्
यथा चन्द्रार्कसंयुक्तो राहुस्सन्नुपलभ्यते
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते
यथा चन्द्रार्कनिर्मुक्तं तमस्तन्नोपलभ्यते
तद्वच्छरीरनिर्मुक्तश्शरीरी नोपलभ्यते
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ
यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति
स एव लुलिते तस्मिन्यथा रूपं न पश्यति
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन पश्यति
अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः
दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः
अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते
तर्षच्छेदो न भवति पुरुषस्येह किल्बिषात्
निवर्तते तदा तर्षः पापमन्तं गतं यदा
विषयेषु च संसर्गाच्छाश्वतस्य तु संशयात्
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः
अथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतस्सुखी
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः
बुद्धेः परतरं ज्ञानं ज्ञानात्सूक्ष्मतरं परम्
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः
मनश्श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा
विमुञ्चत्याकृतिग्रामं तन्मुक्तोऽमृतमश्नुते
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम्
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः
प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्त्य गच्छति
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान्
विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते
तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतः
अस्पर्शिनमशृण्वानमरसादमदर्शिनम्
अघ्राणमवितर्कं च सत्वं प्रविशते परम्
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः
मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम्
मतिस्त्वतिगतं ज्ञानं ज्ञानं चातिगतं महत्
नेन्द्रियैर्मनसस्सिद्धिर्न बुद्धिं बुध्यते मनः
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति
ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः
प्रज्ञाकरणसंयुक्ता ततो बुद्धिः प्रवर्तते
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते
अपरादपि निस्स्रौति गिरेश्शृङ्गादिवोदकम्
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा
मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम्
न समर्थं गुणापेक्षं निर्गुणस्य निदर्शने
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी
व्यवसायगुणोपेता तदा सम्पद्यते मनः
गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्
तपसा सानुमानेन गुणैर्जात्या श्रुतेन च
निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना
गुणहीनो हि तं मार्गं बहिस्समनुवर्तते
गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसम्मितम्
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते
गुणे प्रसारिणी बुद्धिर्हुताशन इवेन्धने
यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः
तदा तत्परमं ब्रह्म संयुक्तं प्रकृतेः परम्
एवं प्रकृतितस्सर्वे सम्भवन्तश्शरीरिणः
निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च
पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च
अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः
एतस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते
द्वितीया मिथुनव्यक्तिमविशेषान्निगच्छति
धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽप्यधर्मतः
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्
यदि ते पञ्चभिः पञ्च मुक्तानि मनसा सह
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवाहितम्
तदेव च यदा सूत्रं सौवर्णे वर्तते पुनः
मुक्तास्वथ प्रवालेषु मृण्मये राजते तथा
तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः
येन येन शरीरेण यद्यत्कर्म करोत्ययम्
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी
ज्ञानपूर्वोद्भवा लिप्सा लिप्सा पूर्वाभिसन्धिता
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम्
फलं धर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम्
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा
क्षयान्ते यत्फलं दिव्यं ज्ञानं ज्ञेये प्रतिष्ठितम्
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः
पृथिवीरूपतो रूपमपामिह महत्तरम्
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान्
पवनाच्च महद्व्योम तस्मात्परतरं मनः
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत्
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्
तद्गत्वा कालविषयाद्विमुक्ता मुक्तिमाश्रिताः
गुणैस्तत्स्थैः प्रकाशन्ते निर्गुणत्वात्ततः परम्
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम्
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणस्स्मृतः
अनादित्वादमध्यत्वात्तदनन्तत्वाच्च सोऽव्ययः
अव्ययत्वाच्च निर्द्वन्द्वो द्वन्द्वाभावात्ततः परम्
अदृष्टतोऽनुपायाच्चाप्यभिसन्धेश्च कर्मणः
न तन्मर्त्याः प्रपश्यन्ति येन गच्छन्ति तत्परम्
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात्
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान्
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते
बुद्धिप्रहीणो मनसा समृद्धस्तथाऽनिराशीर्गुणतामुपैति
परं त्यजन्त्येव विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम्
गुणादाने विप्रयोगे च तेषां मनस्सदा विद्धि परावराभ्याम्
अनेनैव विधिना सम्प्रवृत्तो गुणादाने ब्रह्म शरीरमेति
अव्यक्तात्मा पुरुषो व्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले
तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्ततेऽकर्मरूपः
सर्वैरयं चेन्द्रियैस्सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयस्स्यात्
न सामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन
पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि
परं न यातीह विलोभ्यमानो यथा प्लवं वायुरिवार्णवस्थम्
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेद्व्यपगतरश्मिमण्डलः
तथा ह्यसौ मुनिरिव निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम्
अनागसां सुकृतिमतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम्
सनातनं यदमृतमक्षरं ध्रुवं निचाय्य तं शमममृतत्वमश्नुते