युधिष्ठिरः-
कीदृशं जापको याति नरकं वर्णयस्व मे
कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति
भीष्मः-
धर्मस्यांशप्रसूतोऽसि धर्मज्ञोऽसि स्वभावतः
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ
अमूनि यानि स्थानानि देवानाममरात्मनाम्
नानासंस्थानवर्णानि नानारूपफलानि च
दिव्यानि कामचारीणि विमानानि सभास्तथा
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः
मरुतां विश्वदेवानां साध्यानामश्विनोरपि
रुद्रादित्यवसूनां च तथाऽन्येषां दिवौकसाम्
एते वै निरयास्तात स्थानस्य परमात्मनः
अभयं चानिमित्तं च न च क्लेशभयावृतम्
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च
चतुर्लक्षणवर्जं तच्चतुष्कारणवर्जितम्
अप्रहर्षमनाद्यन्तमशोकं विगतक्लमम्
कालं स पचते तत्र कालस्तत्र वै प्रभुः
स कालस्य प्रभू राजन्सर्वस्यापि तथेश्वरः
आत्मा केवलतां प्राप्तस्तत्र गत्वा न शोचति
ईदृशं परमं स्थानं निरयास्ते च तादृशाः
एते ते निरयाः प्रोक्तास्सर्व एव यथातथम्
तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः