युधिष्ठिरः-
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह
एकैवैषा गतिस्तेषामुत यान्त्यपरा अपि
भीष्मः-
शृणुष्वावहितो राजञ्जापकानां गतिं विभो
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः
एकदेशक्रियश्चात्र निरयं स निगच्छति
अवमानेन कुरुते न तुष्यति न शोचति
ईदृशो जापको याति निरयं नात्र संशयः
अहङ्कारकृतश्चैव सर्वे निरयगामिनः
परावमानी पुरुषो भविता निरयोपगः
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः
यत्राभिद्ध्यां कुरुते तं निरयमृच्छति
अथैश्वर्यप्रवृत्तस्सञ्जापको यत्र रज्यते
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते
रागेण जापको जप्यं कुरुते यश्च मोहितः
यत्रास्य रागः पतति तत्र तत्रोपजायते
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति
चलामेव गतिं याति निरयं वा निगच्छति
अकृतप्रज्ञको बालो मोहं गच्छति जापकः
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति
दृढग्राही करोमीति जप्याञ्जपति जापकः
न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति
युधिष्ठिरः-
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्
सम्भूतो जापकः कस्मात्सशरीरमिहाविशेत्
भीष्मः-
दुष्प्रज्ञानेन निरया बहवस्समुदाहृताः
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः