युधिष्ठिरः-
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह
कुतस्सृष्टमिदं सर्वं ब्रह्मन्स्थावरजङ्गमम्
प्रलये च कमप्येति तन्मे ब्रूहि पितामह
भीष्मः-
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
तद्व्याख्यास्यामि ते तात श्रेयस्करतरं शुभम्
यज्ज्ञात्वा पुरुषो लेके प्रीतिं सौख्यं च विन्दति
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
फललाभश्च सद्यस्स्यात्सर्वभूतहितं च तत्
महाभूतानि पञ्चैव सर्वेषां प्रभवाप्ययौ
ततस्सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतेषु भूतानि सागरेषूर्मयो यथा
प्रसार्य च यथाङ्गानि कूर्मस्संहरते पुनः
महाभूतानि भूतात्मा सृष्ट्वा संहरते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तेषु वैषम्यं तत्तु जीवो न पश्यति
शब्दश्श्रोत्रं तथा खानि त्रयमाकाशसम्भवम्
वायोस्त्वक्स्पर्शनं चेष्टा तदेतत्त्रितयं स्मृतम्
रूपं चक्षुस्तथा व्यक्तिस्त्रिविधं तेज उच्यते
रसः क्लेदश्च जिह्वा च त्रयो जलगुणास्स्मृताः
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः
सर्वं तन्मयमेवैतद्भूतं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मिन्निर्दिश्यते तथा
एवं बुद्ध्या परां बुद्ध्वा भूतानामागतिं गतिम्
समवेक्ष्य शनैस्सम्यक्लभते शममुत्तमम्
महाभूतानि पञ्चैव षष्ठं च मन उच्यते
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः
चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
चिच्छक्त्याधिष्ठिता बुद्धिश्चेतनेत्यभिविश्रुता
चेतनानन्तरो जीवस्तदा वेत्ति च लक्ष्यते
नोत्सृजन्विसृजंश्चैव शरीरं दृश्यते तमः
तस्मिंश्चेतोपलब्धिस्स्यात्तमो वा सारयन्त्युत
ऊर्ध्वं पादतलाभ्यां यदर्वाङ्मूर्ध्नश्च पश्यति
एतेन सर्वमेवेदं सर्वाभिर्व्याप्तमन्तरम्
पुरुषैरिन्द्रियाणीह विजेतव्यानि कृत्स्नशः
तमो रजश्च सत्वं च तेऽपि भावास्तदाश्रिताः
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्
गुणान्ननीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनष्षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
येन सङ्कल्पत्यर्थं किञ्चिद्भवति तन्मनः
येन पश्यति तच्चक्षुश्शृणोति श्रोत्रमुच्यते
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया
त्वचा स्पर्शं विजानाति बुद्धिर्विक्रियतेऽसकृत्
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते
तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान्
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति
न सुखेन न दुःखेन कदाचिदपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्
अविभागगता बुद्धिर्भावे मनसि वर्तते
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते
दूरगं बहुधा गामि प्रार्थना संशयात्मकम्
मनस्सुनियतं यस्य स सुखी प्रेत्य चेह च
इन्द्रियाणि च सर्वाणि प्रदर्शयति सर्वदा
प्रीतिस्सत्वं रजश्शोकस्तमो मोहश्च ते त्रयः
इति बुद्धिगतिस्सर्वा व्याख्याता तव भारत
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्वं रजस्तमश्चैव प्राणिनां संश्रितास्सदा
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्विकी राजसी चैव तामसी चैव भारत
सुखस्पर्शस्सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा
अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत्
अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
कथञ्चिदभिवर्तन्त इत्येते सात्विका गुणाः
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः
अभिमानस्तथा मोहः प्रमादस्स्वप्नतन्द्रिता
कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः
ये ये च भावा लोकेऽस्मिन्सर्वे तेष्वेव ते त्रिषु
सत्त्वं बुद्धिस्ततो भावः प्रितिर्योगात्प्रवर्तते
सत्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः
सृजते त्रिगुणानेक एको न सृजते गुणान्
मशकोदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सदा
अन्योन्यमन्ये च यथा सम्प्रयोगस्तथैतयोः
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा
यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः
परिद्रष्टा गुणानां स संसृष्टान्मन्यते तदा
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति
सम्प्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः
आश्रयो नास्ति सत्वस्य क्षेत्रज्ञस्य कदाचन
सत्वं मनस्संसृजति न गुणान्वै कदाचन
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति
तदा प्रकाशते ह्यात्मा घटे दीपो ज्वलन्निव
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतो मुनिः
सर्वभूतात्मभूतस्स्यात्स गच्छेदुत्तमां गतिम्
यथा वारिचरः पक्षी न लिम्पति न लिप्यते
एवमेष कृतप्रज्ञो भूतेषु परिवर्तते
एवं स्वभावमेवैतं सम्बुद्ध्या विहरेन्नरः
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः
स्वभावशक्त्या युक्तस्तु नित्यं स सृजते गुणान्
ऊर्णनाभिर्यथा सत्त्वं विज्ञेयास्तन्तुवद्गुणाः
प्रध्वस्ता न निवर्न्तते निवृत्तिर्नोपलभ्यते
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति
एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति
इतीमं हृदयग्रत्थिं बुद्धिभेदमयं दृढम्
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः
मलिनाः प्राप्नुयुश्शुद्धिं यथा पूर्णां नदीं नराः
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा
महानदीं हि पारज्ञास्तरन्ते न तदन्यथा
न तु ताम्यन्ति तत्त्वज्ञाः फलज्ञानेन इत्युत
एवं ये विदुराध्यात्मं केवलं ज्ञानमुत्तमम्
एतां बुद्ध्वा नरास्सर्वे भूतानामागतिं गतिम्
अवेक्ष्य च शनैर्बुद्ध्या लभते शममुत्तमम्
त्रिवर्गो यस्य विदितः प्रेक्ष्य तं स विमुच्यते
अन्वीक्ष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः
तत्र तत्र विसृष्टेषु दुर्जर्येष्वजितात्मभिः
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृत कृत्यं मनीषिणः
न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकाऽस्ति कस्यचित्सति हि गुणे प्रवदन्ति तुल्यताम्
यः करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम्
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः
लोकमातुरमसूयते जनस्तत्तदेव बहु पश्य शोचति
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सताम्