युधिष्ठिरः-
आचारस्य विधिं तावत्प्रोच्यमानं त्वयाऽनघ
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः
भीष्मः-
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः
असन्तस्त्वभिविख्यातास्सन्तस्त्वाचारलक्षणाः
पुरीषं वाऽथ मूत्रं वा ये न कुवन्ति मानवाः
राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः
शौचमावश्यकं कृत्वा देवतानां च तर्पणम्
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्
सूर्यं सदोपतिष्ठेत न स्वपेद्भास्करोदये
सायम्प्रातर्जपेत्सन्ध्यां तिष्ठेत्पूर्वां तथा पराम्
पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः
न निन्देदन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत्
नार्द्रपाणिस्समुत्तिष्ठेन्नार्द्रपादस्स्वपेन्निशि
देवर्षिर्नारदः प्राह एतदाचारलक्षणम्
शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
सामात्यं भोजनं पूर्वं पुरुषस्य प्रशस्यते
सायम्प्रातर्मनुष्याणामशनं वेदनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्
होमकाले तथा जुह्वदृतुकाले तथा व्रजन्
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं गतम्
तज्जनाः पर्युपासन्ते सत्यं सन्त उपासते
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्
भक्षयेन्न वृथा मांसं पृष्ठमांसं च वर्जयेत्
स्वदेशे परदेशे वा अतिथिं नोपवासयेत्
काम्यं कर्मफलं लब्ध्वा गुरूणामुपवदयेत्
गुरूणामासनं देयं कर्तव्यं चाभिवादनम्
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत्
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः
सर्वमार्यकृतं धर्म्यं बालसंस्पर्शनानि च
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत्
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्
पशूनां शोभनं कुर्यात्कृषीणामृद्ध्यतां कृषिः
बहुकारं च सस्यानां सुवाह्यं वहतां गवाम्
सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा
श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नाने च भोजने
व्याधितानां च सर्वेषामायुष्यमभिनन्दनम्
प्रत्यादित्यं न मेहेच्च न पश्येदात्मनश्शकृत्
सह स्त्रिया च शयनं सह भोज्यं च वर्जयेत्
त्वङ्कारं नामधेयं च गुरुणां परिवर्जयेत्
अवराणां समानानामुभयं नैव दुष्यति
हृदयं पापवृत्तानां पापमाख्याति वैकृतम्
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः
नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः
पापेन रमतां बुद्धिः पापमेवानुवर्तते
धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते
पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः
राहुर्यथा चन्द्रमुपैति चापि तथाऽबुधं पापमुपैति कर्म
आशया सञ्चितं द्रव्यं यत्कालं नोपभुज्यते
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्
एक एव चरेद्धर्मं नास्ति धर्मे सहायता
केवलं विधिमासाद्य सहायः किं करिष्यति
देवा योनिर्मनुष्याणां देवानाममृतं दिवि
प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते