भृगुः-
वानप्रस्थाः खल्वृषिधर्ममनुवर्तन्ते पुण्यानि तीर्थानि नदीप्रस्रवणान्यनुचरन्ति
सुविभक्तेष्वरण्येषु मृगमहिषवराहशार्दूलचमरसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति
त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुरोमनखधारिणो नियतकालोपस्पर्शना अस्कन्नकालबलिहोमानुष्ठायिनः समित्कुशकुसुमोपहारसम्मार्जनहोमान्तलब्धविश्रामाः शीतोष्णपवनविनिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितत्वगस्थिभूता धृतिपराः सत्वयोगाच्छरीराण्युद्वहन्ति
भवति चात्र श्लोकः
यश्चैतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान्
परिव्राजकानां पुनराचारः प्रवदामहे धनकलत्रपरिबर्हसङ्गेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यदर्शनाः स्थावरजङ्गमानां जरायुजाण्डजस्वेदजोद्भिज्जानां वाङ्मनःकर्मभिरभिद्रोहिणोऽनिकेतनाः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो संवासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्य च प्राणधारणार्थं द्विजातीनां भवनान्यसङ्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतिताऽयाचितभैक्ष्यकाः कामक्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति
भवन्ति चात्र श्लोकाः
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति
यो भैक्षचर्योपगतैर्हविर्भिश्चिताग्निकानां ह्यति याति लोकान्
मोक्षाश्रमं यः कुरुते यथोक्तं शुचिस्सुसङ्कल्पितबुद्धियुक्तः
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः
भरद्वाजः-
अस्माल्लोकात्परो लोकश्श्रूयते नोपलभ्यते
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति
भृगुः-
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते
तत्र ह्यपापकर्माणश्शुचयोऽत्यन्तनिर्मलाः
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः
स स्वर्गसदृशो लोकस्तस्मिन्युक्ताश्शुभा गुणाः
नात्र मृत्युः प्रभवति स्पृशन्ति व्याधयो न च
न लोभः परदारेषु स्वदारनिरतो जनः
न चान्योन्यवधस्तत्र द्रव्येषु च न विस्मयः
परोक्षधर्मो नैवास्ति सन्देहो नापि जायते
कृतस्य तु फलं व्यक्तं प्रत्यक्षमुपलभ्यते
यानासनाशनोपेताः प्रासादभवनाश्रयाः
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः
प्राणधारणमात्रं तु केषाञ्चिदुपलभ्यते
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम्
इह धर्मपराः केचित्केचिन्नैकृतिका नराः
सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे
इह श्रमो भयं मोहः क्षुधा निद्रा च जायते
लोभश्चार्थकृतो नॄणां येन मुह्यन्त्यपण्डिताः
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते
सोपधं निकृतिस्स्तैन्यं परिवादो ह्यसूयिता
परोपघातो हिंसा च पैशुन्यमनृतं तथा
एतानि सेवते यस्तु तपस्तस्य मितायते
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते
कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम्
शुभैश्शुभमवाप्नोति कर्ताऽशुभमथान्यथा
इह प्रजापतिः पूर्वं देवास्सर्षिगणास्तथा
इष्टेन तपसा पूता ब्रह्मलोकमुपाश्रिताः
उत्तरः पृथिवीभागः सर्वपुण्यतमश्शुभः
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः
असत्कर्माणि कुर्वाणास्तिर्यग्योनिषु भारत
क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः
इहैव परिवर्न्तते न ते यान्त्युत्तरां दिशम्
ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः
इत्युक्तोऽयं मया धर्मस्सङ्क्षेपाद्ब्रह्मनिर्मितः
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान्
भीष्मः-
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान्
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्
एष ते प्रभवो राजञ्जगतस्सम्प्रकीर्तितः
निखिलेन महाप्राज्ञ किं भूयश्श्रोतुमिच्छसि