भरद्वाजः-
दानस्य किं फलं प्रोक्तं धर्मस्य चरितस्य च
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य वा
भृगुः-
हुतेन शाम्यते पापं स्वाध्यायैश्शान्तिरुत्तमा
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात्
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्ठते
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते
यादृशं दीयते दानं तादृशं फलमुच्यते
स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः
तेषां स्वर्गफलावाप्तिर्योऽन्यथा स विमुह्यते
भरद्वाजः-
किं कस्य धर्माचरणं किं वा धर्मस्य लक्षणम्
धर्मः कतिविधो वाऽपि तद्भवान्वक्तुमर्हति
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा
तस्य स्वं स्वं समाचारं यथावद्वक्तुमर्हसि
भृगुः-
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारो निर्दिष्टाः
तत्र गुरुकुलवासमेव प्रथममाश्रममुदाहरन्ति
सम्यग्यत्र शौचसंस्कारनियमव्रतविनियतात्मा उभे सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय निद्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्योभैक्ष्यादिसर्वं गुरवे निवेद्य विदितान्तरात्मा गुरुवचनिर्देशानुष्ठाताऽप्रतिकूलो गुरुप्रसादाल्लब्धस्वाध्यफलः स्यात्
भवति चात्र श्लोकः
गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात्
तस्य स्वर्गफलावाप्तिः शुध्यते तस्य मानसम्
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति
तस्य सम्यगाचारलक्षणं सर्वं व्याख्यास्यामः
सदाराणां सहधर्मचर्या फलार्थिनां गृहाश्रमो विधीयते
धर्मार्थकामावाप्त्यर्थं त्रिवर्गफलसाधनमपेक्ष्याविगर्हितेन कर्मणा धनान्यादाय स्वाध्याय प्रकर्षोपलब्धेन वा ब्रह्मर्षिनिर्मितेन वा अद्रिसागरगतेन वा हव्यकव्यनियमाभ्यासदैवतपूजासमाधिप्रसादविध्युपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत्
तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति
गुरुकुलनिवासिनः परिव्राजका ये चान्ये सङ्कल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवस्सुवृत्तविनयसम्पत्यर्थिनः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति
तेषां प्रत्युत्थानाभिगमनानुनयवाक्प्रदानसौमुख्यशय्यासनशरणाभ्यवहारसत्क्रियाश्चेत इति
भवति चात्र श्लोकः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते
स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदविद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति
श्लोकौ चात्र भवतः
वत्सलास्सर्वभूतानां वाच्याश्श्रोत्रसुखा गिरः
परिवादापवादौ च पारुष्यं चात्र गर्हितम्
अवज्ञानमहङ्कारो दम्भश्चैवात्र गर्हितः
अहिंसा सत्यमक्रोधस्सर्वाश्रमगतं तपः
अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामदर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वविहारसन्तोषः कामसुखावाप्तिरिति
श्लोकौ चात्र भवतः
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे
स सुखान्यनुभूयेह शिष्टां गतिमाप्नुयात्
उञ्छवृत्तिर्गृहस्थो यस्स्वधर्माचरणे रतः
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः