भृगुः-
सत्यं ब्रह्म तपस्सत्यं सत्यं च सृजते प्रजाः
सत्येन धार्यते लोकस्स्वर्गं सत्येन गच्छति
अनृतं तमसो रूपं तमसा नीयते ह्यधः
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृतम्
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च
सत्यानृताभ्यामुभयं प्राप्यते जगतीचरैः
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृताद्भवेत्
धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा
तत्र यत्सत्यं स धर्मो यो धर्मस्स प्रकाशो यः प्रकाशस्तत्सुखमित्युच्यते
तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति
शारीरैर्मानसैर्दुःखैस्सुखैश्चापि सुखोदयैः
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
सुखं ह्यनित्यं भूतानामिह लोके परत्र च
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्
तत्खलु द्विविधं दुःखमुच्यते सुखमेवच शारीरं मानसं च
इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते
न ह्यतः त्रिवर्गे फलमस्ति विशिष्टतरम्
स एष काम्यो गुणविशेषो धर्मार्थगुणारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्था
भरद्वाज उवाच
यदेतद्भवताऽभिहितं सुखानां परमार्थस्थितिरिति तन्न गृह्णीमो न ह्येषामृषीणां तपस्विनामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति
श्रूयते च भगवान्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति
ब्रह्मचारी न कामसुखेष्वात्मानं विदधाति
अपिच भगवान्विश्वेश्वर काममतिवर्तमानमनङ्गत्वेन नाशमनयत्
तस्माद्ब्रूमो न तु महात्मभिः प्रतिगृहीतोऽयमर्थो नत्वेष तावद्विशिष्टो गुण इति
न चैतद्भगवान्प्रत्येति
भगवतोक्तं सुखानां परमार्थस्थितिरिति
लोकप्रवादोऽपि च-द्विविधः फलोदयस्सुकृता तु सुखमवाप्यते
दुष्कृताद्दुःखमिति
भृगुः-
अत्रोच्यते
अनृतात्खलु तमः प्रादुर्भूतम्
तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम्
क्रोधलोभमोहमदादिभिरवच्छिन्ना न खल्वस्मिँल्लोके नामुत्र सुखमाप्नुवन्ति
विविधव्याधिव्रणरुजोपतापैरवकीर्यन्ते
वधबन्धननिरोधपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते
चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते
बन्धुधनविनाशविप्रयोगकृतैश्च मानसैश्शोकैरभिभूयन्ते
जरामृत्युकृतैश्चान्यैरिति
यदैतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते तत्सुखं विद्यात्
न चैते दोषास्स्वर्गे प्रादुर्भवन्ति
तत्र खलु भवन्ति
सुसुखः पवनस्स्वर्गे गन्धश्च सुरभिस्तथा
क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्
नरके दुःखमेवाहुस्सुखं तु परमं पदम्
पृथिवी सर्वभूतानां जनित्री तद्विधास्स्त्रियः
पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा
प्रजा विपरिवर्न्तते स्वैस्स्वैः कर्मभिरावृताः