भरद्वाजः-
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम
वैश्यश्शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
भृगुः-
जातकर्मादिभिर्यस्तु संस्कारैस्संस्कृतश्शुचिः
वेदाध्ययनसम्पन्नष्षट्सु कर्मस्ववस्थितः
शौचाचाररतस्सम्यग्विघसाशी गुरुप्रियः
नित्यव्रती सत्यपरस्स वै ब्राह्मण उच्यते
सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः
क्षत्रजं सेवते कर्म देवाध्ययनसङ्गतः
दानादानरतिश्चैव स वै क्षत्रिय उच्यते
कृषिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः
वेदाध्ययनसम्पन्नस्स वैश्य इति सञ्ज्ञितः
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात्
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्
अहिंस्रस्सर्वभूतानां मैत्रायणगतिश्चरेत्
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
अविस्रम्भेण गन्तव्यं विस्रम्भे धारयेन्मनः
मनः प्राणेन निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्
निर्वाणादेव निर्वायान्न किञ्चिदपि चिन्तयेत्
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति
शौचेन सततं युक्तस्सदाचारसमन्वितः
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्