भरद्वाजः-
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः
यदाऽसृजत्सहस्राणि भूतानां स महामतिः
पञ्चानामेव भूतत्वं कथं समुपपद्यते
भृगुः-
अमितानां महाशब्दो भूतानां याति सम्भवम्
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते
चेष्टा वायुः खमाकाशमूष्माऽग्निस्सलिलं द्रवः
पृथिवी चात्र सङ्घातश्शरीरं पाञ्चभौतिकम्
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसस्स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः
भरद्वाजः-
पञ्चभिर्यदि भूतैस्तु यक्तास्स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः
अनूष्मणामचेष्टानां जडानां चैव सर्वशः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः
न शृणुन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्
भृगुः-
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च
म्लायते चैव शीतेन स्पर्शस्तेनात्र विद्यते
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति
नाप्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि
भवन्त्यरोगाः पुष्पाढ्यास्तस्माज्जिघ्रन्ति पादपाः
पादैस्सलिलपानाच्च व्याधीनां चापि दर्शनात्
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
तेषां पुष्पफलैर्व्यक्तिर्नित्यं समुपलभ्यते
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैश्शरीरं विचेष्टते
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमः
इत्येतदिह सङ्घातश्शरीरे पृथिवीमयः
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च
अग्निर्जरयते चापि पञ्चाग्नेयाश्सरीरतः
श्रवणं घ्राणमास्यं च हृदयं कोष्ठमेव च
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
इत्यापः पञ्चधा देहे वसन्ति प्राणिनां सदा
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते सदा
गच्छत्यपानेनार्वाक्च समानने समास्थितः
उदानादुच्छ्वसिति च वृत्तिभेदाच्च भाषते
इत्येते वायवः पञ्च रसो गन्धश्च भूगुणः
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यश्शरीरवान्
ज्योतिः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः
शब्दं शृणोति च तथैवाकाशात्तु शरीरवान्
गन्धस्स्पर्शो रसो रूपं शब्दश्चात्र गुणास्स्मृताः
शब्दस्स्पर्शं च रूपं च रसो गन्धाश्च भूगुणाः
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्
इष्टश्चानिष्टगन्धश्च मधुरः कटुकस्तथा
निर्हारी संहतस्स्निग्धो रूक्षो विशद एव च
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि तन्मे निगदतश्शृणु
रसो बहुविधः प्रोक्तस्सूरिभिः प्रथितात्मभिः
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा
एवं षड्विधविस्तारो रसो वारिमयस्स्मृतः
शब्दस्स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्
ह्रस्वो दीर्घः कृशस्स्थूलश्चतुरस्रश्च वृत्तवान्
शुक्लः कृष्णस्तथा रक्तः नीलः पीतोऽरुणस्तथा
एवं द्वादशविस्तारो ज्योतिषोऽपि गुणस्स्मृतः
शब्दस्स्पर्शश्च वायव्यस्स्पर्शश्च बहुधा स्मृतः
उष्णश्शीतस्सुखो दुःखस्स्निग्धो विशद एव च
कठिनश्चिक्कणश्लक्ष्णः पिच्छलो मृदुदारुणौ
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
तत्रैकगुणमाकाशं शब्द इत्येव स स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधं स्मृतम्
षड्जस्त्वृषभगान्धारौ मध्यमः पञ्चमस्तथा
धैवतश्च निषादश्च सप्तैते शब्दजा गुणाः
एष सप्तविधः प्रोक्तश्शब्द आकाशलक्षणः
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु
आकाशजं शब्दमाहुरेभिर्वायुगुणैर्युतम्
अव्याहतैश्चेतयते न वेत्ति विषमाहतैः
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु