युधिष्ठिरः-
कुतस्सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्
प्रलये च किमप्येति तन्मे ब्रूहि पितामह
ससागरस्सगगनस्सशैलस्सबलाहकः
सभूमिस्साग्निपवनो लोकोऽयं केन निर्मितः
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम्
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अमुं लोकमिमं चापि सर्वं शंसतु नो भवान्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत
भारद्वाजः-
कुतस्सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्
प्रलये च किमप्येति तन्मे ब्रूहि द्विजोत्तम
ससागरस्सगगनस्सशैलस्सबलाहकः
सभूमिस्साग्निपवनो लोकोऽयं केन निर्मितः
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अमुं लोकमिमं चापि सर्वं शंसतु नो भवान्
भीष्मः-
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
ब्रह्मर्षिर्ब्रह्मसङ्काशस्सर्वं तस्मै ततोऽब्रवीत्
भृगुः-
नारायणो जगन्मूर्तिरन्तरात्मा सनातनः
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोचरः
स सिसृक्षुस्सहस्रांशादसृजत्पुरुषं प्रभुः
मानसो नाम विख्यातश्श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस्तथाऽभेद्योऽजरामरः
अव्यक्त इति विख्यातश्शाश्वतोऽथाक्षयोऽव्ययः
यतस्सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः
आकाशादभवद्वारि सलिलादग्निमारुतौ
अग्निमारुतसंयोगात्ततस्समभवन्मही
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः
अहङ्कार इति ख्यातस्सर्वभूतात्मभूतकृत्
ब्रह्मा वै सुमहातेजा य एते पञ्चधातवः
शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा
पवनश्चैव निश्श्वासस्तेजोऽग्निर्निम्नगास्सिराः
दिवाकरश्च सोमश्च नयने तस्य विश्रुते
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः
दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः
स एष भगवान्विष्णुरनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः
अहङ्कारस्य यस्स्रष्टा सर्वभूतोद्भवाय वै
ततस्समभवद्विश्वं पृष्टोऽहं यदिह त्वया
भरद्वाजः-
गगनस्य दिशश्चैव भूजलस्यानिलस्य च
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः
भृगुः-
अनन्तमेतदाकाशं सिद्धचारणसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते
ऊर्ध्वं गतेरधस्तात्तु दृश्येते नेन्दुभास्करौ
तत्र देवास्स्वयं दीप्तास्सूर्यभासोऽग्निवर्चसः
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद
उपर्युपरि तैर्देवैः प्रज्वलद्भिस्स्वयम्प्रभैः
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमस्स्मृतम्
तपसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्
एवमन्तं हि नभसः प्रमाणं सलिलस्य च
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि
अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात्
पठन्ति चैव मुनयश्शास्त्रेषु विविधेषु च
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्
सिद्धानां देवतानां च यदा परिमिता गतिः
अतो गौणमनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः
यस्य दिव्यं हि तद्रूपं ह्रीयते वर्धते न च
कोऽन्यस्तद्वेदितुं शक्तो यो न स्यात्तद्विधोऽपरः
ततः पुष्करतस्सृष्टस्सर्वज्ञो मूर्तिमान्प्रभुः
ब्रह्मा धर्ममयः पूर्वं प्रजापतिरनुत्तमः
भरद्वाजः-
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे
भृगुः-
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः