युधिष्ठिरः-
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं कृतं तथा
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह
भीष्मः-
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः
स्वकर्म कलुषं कृत्वा लोके कृच्छ्रे विधीयते
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्
श्रद्दधानाश्च दान्ताश्च सत्त्वस्थाश्शुभकारिणः
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्
पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्
सुशीघ्रमपि धावन्तं विधानमनुधावति
शेते सह शयानेन येन येन यथाकृतम्
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति
करोति कुर्वतः कर्म छायेवाऽनुविधीयते
येन येन यथा यद्यत्पुरा कर्म समार्जितम्
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना
स्वकर्मफलनिक्षेपं विधानपरिरक्षितम्
भूतग्राममिमं कालस्समन्तात्परिकर्षति
अचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वं कालं नातिवर्तन्ते तथा कर्म पुरा कृतम्
सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ
प्रवृत्तानि विवर्तन्ते विधानान्ते पुनः पुनः
आत्मना विहितं दुःखमात्मनैवोपभुज्यते
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति
संस्विन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा
दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा
तपसा तप्यते देहस्तपसा विन्दते महत्
उपवासप्रतप्तानां दीर्घं सुखमनन्तरम्
दीर्घकालेन तपसा सेवितेन तपोवने
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः
शकुनीनामिवाकाशे मत्स्यानामिव चोदके
पदं यथा न दृश्येत तथा धर्मविदां गतिः
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः