युधिष्ठिरः-
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे
भीष्मः-
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः
प्रज्ञा निश्श्रेयसी लोके प्रज्ञा स्वर्ग्यमनुत्तमम्
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर
वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम्
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्
आर्तस्स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत्
काश्यपः-
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते
भीष्मः-
तथा मुमूर्षुमासीनमकूजन्तमचेतसम्
इन्द्रस्सृगालरूपेण बभाषे द्विजसत्तमम्
इन्द्रः-
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप
सुदुर्लभभवाप्यैतदहो मर्तुं त्वमिच्छसि
सर्वे लाभास्साभिमाना इति सत्या परा श्रुतिः
सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
पाणिमद्भ्यः स्पृहाऽस्माकं धनवद्भ्यो यथा तव
अपाणिलाभादधिको लाभः कश्चन विद्यते
अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे
जन्तूनुच्चावचानङ्गे दशतो न कषामहे
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली
उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च
हिमवर्षतपेभ्यश्च परित्राणानि कुर्वते
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च
उपायैर्बहुभिश्चापि वश्यानात्मनि कुर्वते
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने
दिष्ट्या त्वं न सृगालो वा न कृमिर्न च मूषिकः
न सर्पो न च मण्डूको न चान्यः पापयोनिजः
एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप
किं पुनश्चासि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः
इमे मां क्रिमयोऽदन्ति तेषामुद्धरणाय मे
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम
अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम्
नातः पापीयसीं योनिं पतेयमपरामिति
मन्ये वै पापयोनिं तां सृगालीं यामहं गतः
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः
जात्या चैके सुखितरास्सन्त्यन्ये भृशदुःखिताः
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित्
मनुष्या आढ्यतां प्राप्य राज्यमिच्छन्त्यतः परम्
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति
न तृप्तिः प्रियलाभेऽस्ति तृष्णा लाभैर्न शाम्यति
सम्प्रज्वलति सा भूयस्समिद्भिरिव पावकः
अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि
सुखदुःखे तथैवोभे तत्र का परिदेवना
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे
न खल्वप्यरसज्ञस्य कामः क्वचन जायते
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते
न त्वं स्मरसि वारुण्या खगानां च न पक्षिणाम्
तेभ्यश्चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्
यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव च
अप्राशनमसंस्पर्शो ह्यसन्दर्शनमेव च
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः
पाणिमन्तो हि धनिनो बलवन्तो न संशयः
मनुष्या मानुषैरेव दासत्वमुपपादिताः
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च
अपरे बाहुबलिनः कृतविद्या मनस्विनः
जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति
तया तुष्टस्स्वया योन्या मायां प्रेक्षस्व यादृशीम्
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः
सुसन्तुष्टस्स्वया योन्या लब्धलाभोसि काश्यप
यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः
न केनचित्प्रवादेन सत्येनैवापहारिणा
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः
मुख्यं फलमवाप्तासि वेदोक्तस्यैव कर्मणः
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्
ये केचन ह्यध्ययनं प्राप्ता यजनयाजनम्
कथं ते तात शोचेयुर्ध्यायेयुर्वाऽप्यशोभनम्
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः
येऽनुजातास्सुनक्षत्रे सुतिथौ सुमुहूर्तजाः
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः
सम्पतन्त्यासुरीं योनिं यज्ञव्रतविवर्जिताः
अहमासं पण्डितको हैतुको वेदनिन्दकः
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत्
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु वै द्विज
नास्तिकस्सर्वशङ्की च मूर्खः पण्डितमानिकः
तस्येयं फलनिर्वृत्तिस्सृगालत्वं मम द्विज
अपि जातु तथा तत्स्यादहोरात्रशतैरपि
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः
सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा
भीष्मः-
ततस्स मुनिरुत्थाय काश्यपस्तमुवाच ह
अहो बतासि कुशलो बुद्धिमानिति विस्मितः
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा
ददर्श चैनं देवानामिन्द्रं देवं शतक्रतुम्
ततस्सम्पूजयामास काश्यपो हरिवाहनम्
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमाश्रमम्