युधिष्ठिरः-
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं मुनेराजगरस्य च
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम्
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः
प्रह्लादः-
स्वस्थश्शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत्
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे
स्रोतसा ह्रियमाणासु प्रजास्वविमना इव
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत्
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे
भीष्मः-
अनुयुक्तस्स मेधावी लोकधर्मविधानवित्
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया
ब्राह्मणः-
पश्यन्प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः
स्वभावनिरतास्सर्वाः प्रतिपाद्या न केनचित्
पश्यन्प्रह्लाद संयोगान्विप्रयोगपरायणान्
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते
जलजनामपि ह्यन्तं पर्यायेणोपलक्षये
महतामपि कायानां सूक्ष्माणां च महोदधौ
जङ्गमस्थावराणां च भूतानामसुरोत्तम
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्
उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च
ज्योतींषि च यथाकालं पतमानानि लक्षये
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना
सर्वं सामान्यतो विद्वान्कृतकृत्यस्सुखं स्वपे
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया
शये पुनरभुञ्जानो दिवसानि बहून्यपि
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु
पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते
कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः
शये कदाचित्पर्यङ्के भूमावपि पुनश्शये
प्रासादे वाऽपि मे शय्या कदाचिदुपपद्यते
धारयामि च चीराणि शाणक्षौमाजिनानि च
महार्हाणि च वासांसि धारयाम्यहमेकदा
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया
प्रत्याचक्षे न चाप्येनमनुरुन्धे सुदुर्लभम्
अचलमनिधनं तथा विशोकं शुचिमतुलं विदुषां मते निविष्टम्
अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि
अचलितमतिरच्युतस्स्वधर्मात्परिमितसंवरणः परावरज्ञः
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम्
हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि
इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम्
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम्
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि
सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च
विधिनियतमवेक्ष्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः
अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि
अभिगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थः
तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि
न हृदयमनुरुध्यते मनो मे प्रियसुखदुर्लभतामनित्यतां वा
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि
असुलभमुपलभ्य चार्थलाभं धृतितिबुद्धिपराक्रमैरुपेतम्
बुधमनुजनिषेवितं समर्थैर्व्रतमिदमाजगरं शुचिश्चरामि
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम्
इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं वितर्कयद्भिः
तदहमनुनिशाम्य विप्रयातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः
अनवसितमनन्तदोषपारं नृषु विहरामि विनीतदोषतृष्णः
भीष्मः-
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः
अपगतभयमन्युलोभमोहः परमसुखं विहरेदिमं विहारम्