युधिष्ठिरः-
धनिनो येऽधना ये च वर्तयन्ति स्वतन्त्रिणः
सुखदुःखागमस्तेषां कः कथं वा पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शम्याकेन विमुक्तेन गीतं शान्तिगतेन वै
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्
विविधान्युपवर्तन्ते दुःखानि च सुखानि च
तयोरेकतरो मार्गो यदेनमुपसन्नयेत्
न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत्
न वै चरसि यच्छ्रेय आत्मनो वा न ईशिषे
अकामात्माऽपि हि यदा धुरमुद्यम्य चैव हि
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि
अकिञ्चनस्सुखं शेते सुखं च प्रतिबुध्यते
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम्
अनमित्रपथो ह्येष दुर्लभस्सुलभस्सताम्
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः
अवेक्षमाणस्त्रील्ँलोकान्न तुल्यमुपलक्षये
आकिञ्चन्यं च राज्यं च तुलया समतोलयम्
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्
आकिञ्चन्ये च राज्ये च विशेषस्सुमहानयम्
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा
नैवास्याग्निर्न चादित्यो न मृत्युर्न च शत्रवः
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः
तं वै सदा कामचरमनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं स्पृहयन्ति दिवौकसः
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः
तिर्यग्दृष्टिश्शुष्कमुखः पापको भ्रुकुटीमुखः
निर्दशंश्चाधरोष्ठं स क्रुद्धो दारुणभाषिता
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्
सोऽस्य चित्तं विकिरति शारदाभ्रमिवानिलः
अथैनं रूपमानश्च धनमानश्च विन्दति
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते
सम्प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान्
परिक्षीणः परस्वानामादानं बहु मन्यते
तमतिक्रान्तमर्यादमाददानमसाम्परतम्
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः
एवमेतानि दुःखानि तानि तानीह मानवम्
विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैस्सह
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्
नात्यक्त्वा निर्भयश्शेते सर्वं त्यक्त्वा सुखी भवेत्
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः