युधिष्ठिरः-
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच्छोकं तां मे ब्रूहि पितामह
भीष्मः-
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्
यथा यथा विपर्येति लोकतन्त्रमस्रवत्
तथा तथा विरागोऽत्र जायते नात्र संशयः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा सेनजितं विप्रः कश्चिदित्याब्रवीत्सुहृत्
पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम्
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत्
विप्रः-
किं नु मुह्यसि मूढस्सन् शोच्यः किमनुशोचसि
यदा त्वामपि शोचन्तश्शोच्या यास्यन्ति तां गतिम्
त्वं चाहं चैव ये चान्ये त्वां राजन्पर्युपासते
सर्वे तत्र गमिष्यामो यतश्चैवागता वयम्
सेनजित्-
का बुद्धिः किं तपो विप्र कस्समाधिस्तपोधन
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि
विप्रः-
हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये
आत्मानमनुशोचामो ममैष हृदि संस्थितः
सर्वभूतानि दुःखेन व्यतिषक्तानि पश्यतः
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्
न तं पश्यामि यस्याहं तं न पश्यामि यो मम
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम
यथा मम तथाऽन्येषामिति चिन्त्य न मे व्यथा
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद्भूतसमागमः
एवं पुत्राश्च दाराश्च ज्ञातयश्चाथ बान्धवाः
तेषु स्नेहो न कर्तव्यो विप्रयोगश्च तैर्ध्रुवः
अदर्शनादापतितः पुनश्चादर्शनं गतः
न त्वाऽसौ वेद न त्वं तं कस्मात् किमनुशोचसि
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्
सुखात्सञ्जायते दुःखं दुःखात्सञ्जायते सुखम्
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखान्ते दुःखमापन्नः पुनरापत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम्
न बुद्धिर्धनलाभाय न मौढ्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
बुद्धिमन्तं च मूढं च शूरं भीरुं कविं जडम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः
ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नरास्सुखमेधन्ते क्लिश्यत्यन्तरितो जनः
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः
सुखं स्वपिति दुर्मेधास्स्वानि कर्माण्यचिन्तयन्
अविज्ञानेन महता कम्बलेनेव संवृतः
ये च बुद्धिं परां प्राप्ता द्वन्द्वातीता विमत्सराः
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च
नित्यं प्रमुदिता मूढास्सारमेयगणा इव
अवलेपेन महता परितृप्ता विचेतसः
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनहङ्कृतम्
शान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्
एतां बुद्धिं समास्थाय शुद्धचित्तश्चरेद्बुधः
उदयास्तमयज्ञं हि न शोकस्स्प्रष्टुमर्हति
यन्निमित्तो भवेच्छोकस्त्रासो वा क्रोध एव वा
आयासो वा यतो मूलं तदेकाङ्गमपि त्यजेत्
यद्यत्त्यजति कामनां तत्सुखस्याभिपूर्यते
कामानुसारी पुरुषः कामाननुविनश्यति
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतष्षोडशीं कलाम्
कर्तारमार्जितं कर्म शुभं वा यदि वाऽशुभम्
प्राज्ञं मूढं च शूरं च भजते तादृशं नरम्
स्वकर्मणां बलेनैव प्रियाण्येवाप्रियाणि च
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
एतां बुद्धिं समास्थाय नावसीदेद्गुणान्वितः
सर्वान्कामाञ्जुगुप्सेत क्रोधं कृत्वा पृष्ठतः
वृत्त एष हृदि प्रौढो मृत्युरेष मनोभवः
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः
तदाऽऽत्मज्योतिरात्मश्रीरात्मन्येव प्रसीदति
किञ्चिदेव ममत्वेन यदा भवति कल्पितम्
तदेव परितापाय नाशे सम्पद्यते तदा
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति
यदा न कुरुते धीरस्सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतस्सुखम्
अत्र पिङ्गलया गीता गाथा शृणु नराधिप
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्
कदाचित्पिङ्गला वेश्या कान्तेनासीद्विनाकृता
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा
उवाच वचनं बुद्ध्या सा सम्यक्कृतनिश्चया
पिङ्गला
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम्
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा
एकस्थूणं नवद्वारमपिधास्याम्यगारकम्
का ह्यकान्तमिहायान्तं कान्त इत्यभिमंस्यते
अकामाः कामरूपेण धूर्ताश्च नररूपिणः
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धाऽस्मि जागृमि
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा
सम्बुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया
विप्रः-
सुखं निराशस्स्वपिति नैराश्यं परमं सुखम्
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला
भीष्मः-
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्