भीष्मः-
समामन्त्र्योरगश्रतष्ठं ब्राह्मणः कृतनिश्चयः
दीक्षाकाङ्क्षी ततो राजन्भार्गवं च्यवनं श्रितः
स तेन कृतसंस्कारो धर्ममेवावजज्ञिवान्
तत्रैव च कथामेतां राजन्कथितवांस्तदा
भार्गवेणापि राजेन्द्र जनकस्य निवेशने
कथैषा कथिता पुण्या नारदाय महात्मने
नारदेनापि राजन्द्र देवेन्द्रस्य निवेशने
कथिता वदतां श्रेष्ठ पृष्ठेनाक्लिष्टकर्मणा
देवराजेन च पुरा कथैषा कथिता विभो
समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप
यदा च मम रामेण युद्धमासीत्सुदारुणम्
वसुभिश्च तदा राजन् कथेयं कथिता मम
पृच्छमानाय तत्त्वेन मयाऽप्यद्य शुभा तव
कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर
तदेष परमो धर्मो यन्मां पृच्छसि भारत
असन्निधिरनाकाङ्क्षी धर्मार्थकरणो नृप
स च किल कृतनिश्चयो द्विजातिर्भजगपतिप्रतिदेशितार्थकृत्यः
यमनियमसमाहितो वनान्तं परिगणितोञ्छसिलाशनप्रविष्टः