ब्राह्मणः-
आश्चर्यं नात्र सन्देहस्सुप्रीतोऽस्मि भुजङ्गम
अन्वर्तोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम
स्मरणीयोऽस्मि भवता सम्प्रेषणनियोजनैः
नागः-
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान्
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः
उक्तानुक्ते तु ते कार्ये समामन्त्र्य द्विजर्षभ
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संसयः
लोकोऽयं भवतस्सर्वः का चिन्ता मयि तेऽनघ
ब्राह्मणः-
एवमेतन्महाप्राज्ञ विज्ञानार्थं भुजङ्गम
नातिरिक्तास्त्वया देवा सर्वथेह यथागथम्
एष चाहं स एव त्वमेवमेव भुजङ्गम
अहं भवांश्च भूताश्च सर्वे सर्वत्रगास्सदा
आसीत्तु मे भोगिपते संशयः पुणयसञ्चये
यऽहमुञ्छव्रतं साधो चरिष्ये धर्मदर्शिभिः
एष मे निश्चयस्साधो कृतः कारणवत्तरः
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम