सूर्यः-
नैष देवो न गन्धर्वो नासुरो न च पन्नगः
उञ्छवृत्तिव्रते सिद्धो मुनिस्त्वेष दिवं गतः
एष मूलफलाहारश्शीर्णपर्णाशनस्तथा
अब्भक्षो वायुभक्षश्च आसीद्विप्रस्समाहितः
ऋचश्चानेन विप्रेण संहितान्तरबिष्टुताः
स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः
असन्निधिरनाकाङ्क्षी नित्यमयञ्छसिलाशनः
सर्वभूतहिते युक्तो ह्येष विप्रो भुजङ्गम
एष स्वेन प्रभावेण स्म्प्राप्तो निर्मलां गतिम्
सुकृतेनास्य यत्नेन स्पृहयन्ते भवद्विधाः
नागः-
न हि देवा न गन्धर्वा नासरा न च पन्नगाः
प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम्
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज
संसिद्धो मानुषः कश्चिद्योऽसौ सिद्धगतिं गतः
सूर्येण सहितो ब्रह्मन्पृतिवीं परिवर्तते