ब्राह्मणः-
विवस्वतो गच्छतः पर्ययेण वोढुं भवांस्तं रथमेकचक्रम्
आश्चर्यभूतं यदि तत्र किञ्चिद्दृष्टं त्वया शंसिुमर्हसि त्वम्
नागः-
आश्चर्यमाणामनेकानां प्रतिष्ठा भगवान्रविः
यतो भूताः प्रजायन्ते सर्वे त्रैलोक्यम्मताः
यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः
वसन्त्याश्रित्य मुनयस्संसिद्धा देवतैस्सह
यतो वायुर्विनिस्सृत्य सूर्यरश्म्याश्रितो महान्
विजृम्भत्यम्बरे विप्र किमाश्चर्यमतः परम्
शुक्लो नामासितः पादो यस्य वारिधरोदरैः
पयस्सृजति वर्षासु किमाश्चर्यतरं ततः
योऽष्टमासांस्तु शुचिना वारुणेनोज्झितं पयः
पर्यादत्ते पुनः काले किमाश्चर्यतरं ततः
यस्य तिजोविशुष्केषु नित्यमात्मा प्रतिष्ठितः
यतो बीजं मही चेयं धार्यते सचराचरम्
यत्र देवो महाबाहुश्शाश्वतः परमोऽक्षरः
अनादिनिधनो विप्र किमाश्चर्यतरं ततः
आश्चर्याणामिहाश्चर्यमिदमेकं तु मे शृणु
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात्
पुरा मध्याह्नसमये लोकं तपति भास्करे
प्रत्यादित्यप्रतीकाशस्सर्वतः प्रत्यदृश्यत
स लोकांस्तेजसा सर्वान्स्वभासा भासयन्निव
हुताहुतिरिव ज्योतिर्व्याप्य तेजो मरीचिभिः
अनिर्देश्येन रूपेण द्वितीय इव भास्करः
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना
ततो भित्तवेव गगनं प्रविष्टो रविमण्डलम्
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम्
तत्र नस्संशयो जातस्तयोस्तेजस्समागमे
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः
ते वयं जातसन्देहाः पर्यपृच्छामहे रविम्
क एष दिवमाक्रम्य गतस्सूर्य इवापरः