नागः-
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते
को हि मां मानुश्शक्तो द्रष्टुकामो यशस्विनि
सन्दर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति
सुरासुरगणानां च देवर्षीणां च भामिनि
ननु नागा महावीर्यास्सौरसेयास्तरस्विनः
वन्दनीयाश्च वरदा वयमप्यनपायिनः
मानुषाणां विशेषेण धनाध्यक्षा इति श्रुतिः
नागी-
आर्जवेनाभिजानामि नासौ देवोऽनिलाशन
एकं त्वस्य विजानामि भक्तिमान्न च रोषणः
स हि कार्यान्तराकाङ्क्षी जलेप्सुश्चान्तको यथा
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते
न हि त्वा दैवतं किञ्चिद्विघ्नितुं प्रतिपालयेत्
तुल्येऽप्यभिजने जातो न कश्चित्पर्युपासते
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि
आशाच्छेदेन तस्यार्य नात्मानं दग्धुमर्हसि
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम्
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते
सङ्कल्पविहितं त्वर्थं पूरयित्वाऽनिलाशन
अर्थिनां परमं लोकं यशश्चाग्र्यं समश्नुते
प्रार्थितार्थाभिहन्ता ते मा भूत्कश्चित्कुलेऽनघ
सामर्थ्ये सति नागेन्द्र नरके स हि मज्जति
मौनेनाज्ञाफलावाप्तिर्दानेन च यशो महत्
वाग्मित्वं सत्यवाक्येन परत्र च महीयते
भूमिप्रदानेन महीं लभत्याश्रयसम्मिताम्
नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा लाभमुपाश्नुते
अभिप्रेतामसङ्क्लिष्टां कृत्वा कामवतः क्रियाम्
न याति नरकं कश्चिदिति धर्मविदो विदुः
पद्मः-
अभिमानेन मानो मे ज्ञातिदोषो हि मे महान्
रोषस्सङ्कल्पितस्साध्वि दग्धो वागाग्निना त्वया
न च रोषादहं साध्वि पश्येयमधिकं तमः
यस्य वै सक्ततां यान्ति विशेषेण भुजङ्गमाः
रोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्
तथा श्क्रप्रतिस्पर्धी हतो रामेण संयुगे
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्
धर्षणाद्रोषदिग्धेन कार्तवीर्यसुता हताः
जामदग्न्येन रामेण सहस्रनयनोपमः
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः
तथा शक्रप्रतिस्पर्धी रोषस्य वशमागतः
मान्धाता निहतो युद्धे लवणेन तु रक्षसा
तदेष तपसां शत्रुश्श्रेयसां विनिपातकः
निगृहीतो मया रोषश्श्रुत्वैव वचनं तव
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि
अस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता
एष तत्रैव गच्छामि यत्र तिष्ठति स द्विजः
सर्वथा चोक्तवानकार्यं नाकृतार्थः प्रयास्यति