भीष्मः-
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः
दत्ताभ्यनुज्ञस्स्वं वेश्म कृतकर्मा विवस्वतः
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः
उपासीनां च तां साध्वीं पन्नगः पर्यपृच्छत
नागः-
अपि त्वमसि कल्याणि देवतातिथिभोजने
पूर्वयुक्तेन विधिना युक्ता युक्तेन मत्समम्
अपि त्मसि सुश्रोणि स्त्रीबुद्ध्या मार्दवीकृता
मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना
नागी-
शिष्याणां गुरुश्रूषा विप्राणां वेदधारणम्
भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम्
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता
नियताहारता नित्यं व्रतचर्या यथाक्रमम्
धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशोषणात्
अहं कस्य कुतो वाऽहं कः किं मम भवेदिति
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमो भवेत्
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते
साहसानां च सर्वेषामकार्याणां क्रियास्तथा
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै
साऽहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते
सत्पथं कथमुत्सृज्य यास्यामि विपथेन वै
देवाननु महाभाग धर्मचर्या न हीयते
अतिथीनां च सत्कारे नित्ययुक्ताऽस्म्यतनद्रिता
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै
स च कार्यं न मे ख्याति दर्सनं तव काङ्क्षते
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः
आसीनो वर्तयन्ब्रह्म ब्राह्मणस्संशितव्रतः
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता
प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः
एतच्छ्रुत्वा महाप्राज्ञ तत्र वा गन्तुमर्हति
दातुमर्हसि वा तस्य दर्शनं दर्शनार्थिनः