भीष्मः -
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास्ते भुजङ्गमाः
सर्वे सम्भूय सहितास्तस्य नागस्य बान्धवाः
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति
तेऽपश्यन् पुलिने तत्र विविक्ते नियतव्रतम्
तमासीनं निराहारं द्विज जप्यपरायणम्
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकत्
ऊचुर्वाक्यमसन्दिग्धमातिथेयस्य बान्धवाः
नागाः-
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन
न चाभिलषसे किञ्चिदाहारं धर्मवत्सल
अस्मानभिगतस्चासि वयं च त्वामुपस्थिताः
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम
आहारहेतोरन्नं वा भिक्तुमर्हसि ब्राह्मण
त्यक्ताहारेण भवता वने निवसता सता
बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्करात्
अनुग्रहार्थमस्माकमाहारं कर्तुमर्हसि
अनश्नाति त्वयि ब्रह्मन्गच्छेम नरकं वयम्
न हि नो भ्रूणहा कश्चिद्राजवध्योऽनृतोऽपि वा
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु
ब्राह्मणः-
उपदेशेन युष्माकमाहारोऽयं मया वृतः
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति
यद्यष्टरात्रे निर्याते नागामिष्यति पन्नगः
तदाऽऽहारं करिष्यामि तन्निमित्तमिह व्रतम्
कर्तव्यो न च सन्तापो गम्यतां च यथागतम्
तन्निमित्तं व्रतं बद्धं नैतद्भेत्तुमिहार्हथ
भीष्मः-
तेन ते समनुज्ञाता ब्राह्मणेन भुजङ्गमाः
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ