भीष्मः-
स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन्क्रमेणाथ कञ्चिन्मुनिमुपस्थितः
तं स तेन यथोद्दिष्टं नागं विप्रेण वै द्विजः
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः
सोऽभिगम्य यथाख्यातं नागायतनमर्थवित्
प्रोक्तवानहमस्मीति भोश्शब्दालङ्कृतं वचः
ततस्तस्य वचश्श्रुत्वा रूपिणी धर्मवत्सला
दर्शयामास तं विप्रं नागपत्नी पतिव्रता
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा
स्वागतेनासनं दत्त्वा किं करोमीति चाब्रवीत्
ब्राह्मणः-
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा
द्रष्टुमिच्छामि भवति तदेवं नागसत्तमम्
एतद्धि परमं कार्यमेतन्मे फलमीप्सितम्
एनेनार्थेन चास्म्यद्य सम्प्राप्तः पन्नगालयम्
नागभार्या-
आर्य सूर्यरथं वोढुं गतोऽर्यो मे सदारकः
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम्
एतद्विदितमार्यस्य विवासे कारणं मम
भर्तुर्भवति किञ्चान्यत्क्रियतां तद्वदस्व मे
ब्राह्मणः-
अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने
सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहाग्रतः
ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे
कालं परिमिताहारो यथोक्तं परिपालयन्
भीष्मः-
ततस्स विप्रस्तां नागीं समाधाय पुनः पुनः
तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः