युधिष्ठिरः-
विस्तरेणार्थसम्बन्धं श्रोतुमिच्छामि तत्त्वतः
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद
भीष्मः-
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः
ग्रामं दस्युगणाकीर्णं प्राविशद्घनतृष्णया
तत्र दस्युर्धनयुतस्सर्ववर्णविशेषवित्
ब्रह्मण्यस्सत्यसन्धश्च दाने च निरतोऽभवत्
तस्य क्षयमुपागम्य ततो भिक्षामयाचत
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्
तस्मै स भिक्षामददाद्वस्त्रं च सुदृढं नवम्
नारीं च यौवनोपेतां भर्त्रा विरहितां तदा
एतत्सम्प्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमःSV-12-05-148-008a
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये
बाणवेधे परं यत्नमकरोद्गौतमो नृप
वक्राङ्गहारहस्तस्तु सर्वतो बाणगोचरे
जघान गौतमो राजन्यथा दस्युगणास्तथा
हिंसापरो घृणाहीनस्सदा प्राणिवधे रतः
गौतमस्सन्निकर्षेण दस्यूनां ससमोऽभवत्
तत्रैव वसतस्तस्य दस्युग्रामे सुखं तदा
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून्
ततः कदाचिदपरो द्विजस्तं देशमागमत्
जटाचीराजिनधरस्स्वाध्यायनिरतश्शुचिः
विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जनः
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः
ततस्स गौतमगृहं प्रविवेश द्विजोत्तमः
गौतमश्चापि सम्प्राप्तस्तावन्योऽन्यं समागतौ
वक्राङ्गहारहस्तं तं धनुष्पाणिमवस्थितम्
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम्
अभिज्ञाय द्विजो व्रीलामगमद्वाक्यमाह च
द्विजः-
किमिदं कुरुषे मूढ विप्रस्त्वं हि कुलोद्भवः
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्
पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान्
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः
अवबुध्यात्मनाऽऽत्मानं सत्त्वं शीलं दमं शमम्
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज
भीष्मः-
एवमुक्तस्स सुहृदा तेन तत्र हितैषिणा
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तवत्
गौतमः-
अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम्
वृत्त्यर्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम
त्वद्दर्शनात्तु विप्रर्षे कृतार्थश्चारम्यहं द्विज
अध्वानं सह यास्यावश्श्वो वसश्चाद्य शर्वरीम्
भीष्मः-
तस्यां रजन्यां व्युष्ठायां गते तस्मिन्द्विजर्षभे
निष्क्रम्य गौतमोऽगच्छद्धनार्थी विचचार ह
सामुद्रगान्सवणिजस्ततोऽपश्यद्द्विजः पथि
स तेन सह सार्थेन प्रययौ सागरं प्रति
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्
स कथञ्चित्तथा तस्मात्ततो मुक्तो द्विजस्तदा
कान्दिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्
ततस्तु स परिभ्रष्टस्सार्थात्तस्मात्तथाऽर्थतः
एकाकी व्यभ्रमत्तत्र वने कापुरुषो यथा
स पन्थानं समासाद्य समुद्राभिमुखस्तथा
आससाद वनं रम्यं महत्पुष्पितपादपम्
सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम्
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम्
सालतालधवाश्वत्थप्लक्षागुरुवनैस्तथा
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्
गिरिप्रस्थेषु सर्वेषु सुखेषु सुखगन्धिषु
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः
उद्गताश्शकुनाश्चान्ये सामुद्रास्सर्वतोऽभवन्
स तान्यतिमनोज्ञानि विहगानां रुतानि वै
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः
ततोऽपश्यत्सुरम्ये तु सुवर्णसिकताचिते
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे
श्रिया युक्तं महावृक्षं न्यग्रोधं च परिमण्डलम्
शाखाभिरनुकूलाभिस्संवृतं छत्रसन्निभैः
तस्य मूलं च संसिक्तं वरचन्दनवारिणा
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम्
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम्
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत्
तत्रासीनस्य कौरव्य गौतमस्य नराधिप
पुष्पाणि समुपस्पृश्य प्रववावनिलश्शुभः
ह्लादयंस्तस्य गात्राणि गौतमस्य तदा नृप
स तु विप्रः परिश्रान्तो विप्रः पुण्येन वायुना
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात्
ततोऽस्तं भास्करे प्राप्ते सन्ध्याकाल उपस्थिते
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणस्सदा
कुरुराज महाप्राज्ञः काश्यपस्यात्मसम्भवः
राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि
देवकन्यासुतश्श्रीमान्विद्वान्देवसमप्रभः
मृष्टहाटकसञ्छन्नो भूषणैरर्कसन्निभैः
भूषितस्सर्वगात्रेषु देवगर्भश्श्रिया ज्वलन्
तमागतं खगं दृष्ट्वा विस्मितो गौतमोऽभवत्
क्षुत्पिपासापरीतात्मा हिंसार्थं चैनमैक्षत
बकः-
स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहान्
अस्तं च सविता यातस्सन्ध्येयं समुपस्थिता
मम त्वं निलयं प्राप्तः प्रियातिथिरनुत्तमः
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा
भीष्मः-
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा
कौतूहलान्वितो राजन्राजधर्माणमैक्षत
राजधर्मा-
भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम
सखित्वाच्चच गुणोपेतस्स्वागतं ते द्विजर्षभ
भीष्मः-
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्
भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान्
ये चरन्ति महामीनास्तांश्च तस्योपकल्पयत्
वह्निं चापि सुसन्दीप्तं मीनांश्चैव सुपीवरान्
स गौतमायातिथये तदाऽन्नमुपकल्पयत्
तत्सतृप्तं च तं विप्रं प्रीतात्मानं महामनाः
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्
ततो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत्
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्
अथोपविष्टं शयने गौतमं वाक्यवित्तमः
पप्रच्छ काश्यपो वाग्मी किमागमनमित्युत
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत
तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम्
सोऽहं तथा यतिष्यसि भविष्यसि यथाऽर्थवान्
ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम्
बकः-
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्
विरूपाक्ष इति ख्यातः सखा मम महाबलः
तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः
भिष्मः-
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः
चन्दनागुरुमुख्यानि यत्र क्व वनानि च
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ
ततो मनुव्रजं नाम नगरं शैलतोरणम्
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः
प्रहितस्सुहृदा राजन्प्रीयतां वः प्रियोऽतिथिः
ततस्तु राक्षसेन्द्रश्च सहायान्वै युधिष्ठिर
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति
तस्मात्पुरवरात्तूर्णं पुरुषाश्श्वेतवेष्टनाः
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्
ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम्
राजप्रेष्याः-
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति
राक्षसाधिपतिश्श्रीमान्राजधर्मेण प्रेषितः
यदर्थमिह मां द्रष्टुं तत्क्षिप्रं संविधीयताम्
भीष्मः-
ततस्स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः
गौतमः परमर्द्धिं तां पश्यन्परमविस्मितः
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा
ततस्स विदितो राज्ञः प्रविश्य गृहमुत्तमम्
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम्
पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत्
ततस्तं व्याजहारान्यद्गोत्रमात्रं तदा द्विजः
ब्रह्मवर्चसहीनस्य स्वाध्यायाद्विरतस्य च
गोत्रमात्रविदो राजा निवासं समपृच्छत
राक्षसः-
क्व ते निवासः कल्याण किं गोत्रा ब्राह्मणी च ते
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम्
गौतमः-
मध्यदेशप्रसूतोऽहं वासो मे शबरालये
शूद्री पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते
भीष्मः-
ततो राजा विममृशे कथं कार्यमिदं भवेत्
कथं वा सुकृतं मे स्यादिति बुद्ध्याऽन्वचिन्तयत्
राक्षसः-
अयं वै जन्मना विप्रस्सुहृत्तस्य महात्मनः
सम्प्रेषितश्च तेनायं काश्यपेन महात्मना
तस्य प्रियं करिष्यामि स हि मामाश्रितस्सदा
भ्राता मे बान्धवश्चासौ सखा चैव प्रियो मम
कार्तिक्यामद्य भोक्तारस्सहस्रं मे द्विजोत्तमाः
तत्रायमपि भोक्ता तु देयमस्मै च मे धनम्
भीष्मः-
ततस्सहस्रं विप्राणां विदुषां समलङ्कृतम्
स्नातानामनुलिप्तानामहतक्षौमवाससाम्
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा
बृस्यस्तेषां तु सन्न्यस्ता राक्षसेन्द्रस्य शासनात्
भूमौ वरकुशास्स्तीर्णाः प्रेष्यैर्भरतसत्तम
तासु ते पूजिता राज्ञा निषण्णा द्विजपुङ्गवाः
व्यराजन्त महाराज नक्षत्रपतयो यथा
ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाश्शुभाः
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः
तस्य नित्यं ह्यमावास्यां आषाढ्यां बहवो द्विजाः
ईप्सितं भोजनं चैव लभन्ते सत्कृतं तथा
विशेषतस्तु कार्तिक्यां द्विजेभ्यस्सम्प्रयच्छति
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः
सुवर्णं रजतं चैव मणीनथ च मौक्तिकान्
वज्रान्महाघनांश्चैव वैदूर्याजिनराङ्कवान्
रत्नवन्ति च पात्राणि दक्षिणार्थं महायशाः
दत्त्वा प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः
येषु येषु च भाण्डेषु भुक्तवन्तो द्विजोत्तमाः
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणास्तदा
ततो महार्हैस्तैस्तेन रत्नैरभ्यर्चिताश्शुभैः
ब्राह्मणा मृष्टवसनास्सुप्रीतास्समुदोऽभवन्
ततस्तान्राक्षसेन्द्रस्तु द्विजानाह पुनर्वचः
नानादेशागतान्राजा ब्राह्मणाननुमन्य वै
विरूपाक्षः-
भीष्मः-
अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित्
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात मा चिरम्
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः
गौतमोऽपि सुवर्णस्य भारमादाय सत्त्वरः
कृच्छ्रात्समुद्वहन्भारं न्यग्रोधं समुपागमत्
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयद्बकः
पूजां चाप्यकरोद्धीमान्भोजनं च यथाविधि
ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ
गौतमश्चिन्तयामास रात्रौ तस्य समीपतः
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया
गृहीतो लोभमोहाभ्यां दूरं च गमनं मम
न चास्ति पथि भोक्तव्यं प्राणसन्धारणं क्वचित्
किं कृत्वा सुकृतं हि स्यादिति चिन्तापरोऽभवत्
ततस्स पथि भोक्तव्यं पश्यमानो न किञ्चन
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत्
गौतमः-
अयं बकपतिः पार्श्वे मांसराशिचितो महान्
इमं हत्वा गृहीत्वाऽस्य यास्ये मांसमिति प्रभो
भीष्मः-
अथ तत्र महार्चिष्माननलो वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत्
ततोऽलातेन दीप्तेन स सुप्तं निजघान तम्
निहत्य च मुदा युक्तस्सोऽनुबन्धं न दृष्टवान्
स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः
ततो दाक्षायणीपुत्रं नागतं तं तु भारत
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता
ततोऽन्यस्मिन्गतेऽप्यह्नि विरूपाक्षोऽब्रवीत्सुतम्
राक्षसः-
न पश्ये राजधर्माणमद्य पुत्र खगोत्तमम्
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति नित्यदा
मां चादृष्ट्वा कदाचित्स न गच्छति खगोत्तमः
द्विरात्रमुभयोस्सन्ध्योर्नाभ्यगच्छन्ममालयम्
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः
दुराचारस्स दुर्बुद्धिरिङ्गितैर्लक्षितो मया
निष्क्रियो दारुणाकारो दुष्टो दस्युरिवाधमः
गौतमस्स गतस्तत्र तेनोद्विग्नं मनो मम
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम्
भीष्मः-
स एवमुक्तस्त्वरितो रक्षोभिस्सहितो ययौ
न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः
रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः
ततो रोषसमाविष्टो गौतमग्रहणाय वै
गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः
राजधर्मशरीरस्य कङ्कालं चाप्यथोद्धतम्
मनुव्रजं तु नगरं यातुधानास्ततो गताः
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः
पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः
तं दृष्ट्वा विमना राजा सामात्यस्सगणोऽभवत्
आर्तनादो महानासीद्गृहे तस्य महात्मनः
स्त्रीसङ्घस्य तदा राजन्निहते काश्यपात्मजे
राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति
राक्षसाः-
अस्य मांसं वयं सर्वे खादिष्यामस्समागताः
पापकृत्पापकर्मा च पापात्मा पापमास्थितः
हत एव हि पापात्मा कृतघ्नो नात्र संशयः
विरूपाक्षः-
कृतघ्नं पापकर्माणं न भक्षयितुमुत्सहे
दासेभ्यो दीयतामेष मित्रध्रुक्पुरुषाधमः
भीष्मः-
दासास्सर्वे समाहूता यातुधानास्तथा परे
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम
शिरोभिश्च गता भूमिं महाराज न नो बलात्
मानार्थं जातु निर्बन्धं किल्बिषं दातुमर्हसि
यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम्
भक्ष्यतां त्यज्यतां वाऽयं दर्शनान्मेऽपनीयताम्
ततस्ते रुषिता दासाश्शूलपट्टसपाणयः
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददंस्तदा
क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते
ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम्
क्रव्यादाः क्रिमयश्चैव न खादन्ति कदाचन
विद्वान्संस्कारयामास पार्थिवो राजधर्मिणम्
गन्धैर्बहुभिरव्यग्रो दाहयामास तं द्विजम्
दग्धे राक्षसराजेन खगराजे प्रतापिना
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम्
तस्या वक्त्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ
समीरणाहृतो यातश्चितां तां राजधर्मणः
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा
विरूपाक्षोऽपि तं शक्रमयाचत पुनः पुनः
काश्यपस्य सुतो देव भ्राता मे जीवतामिति
कौशिकस्त्वब्रवीत्सर्वं प्रीयमाणः पुनः पुनः
इन्द्रः-
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन
ब्रह्माः-
यस्मात्त्वं नागतो द्रष्टुं मम नित्यं सभामिमाम्
तस्माद्बक गृहे हन्ता ब्राह्मणः पापबन्धनः
बद्धो भवतु घोरैश्च पाशैर्नागमयैषर्भृशम्
इन्द्रः-
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम्
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम्
तस्य देवस्य वचनाद्खगोऽयं बकराडिह
तेनैवामृतसिक्तश्च पुनस्सञ्जीवतां बकः
भीष्मः-
बकः-
राजधर्माऽपि तं प्राह सहस्राक्षमरिन्दम
गौरवद्ब्राह्मणश्चासौ मुच्यतां मत्प्रियस्सखा
भीष्मः-
तस्य वाक्यं समाज्ञाय कौशिकस्सुरसत्तमः
गौतमं त्वभ्यनुज्ञाय प्रीतोऽथ गमनोत्सुकः
प्रीतितस्स गतस्सौम्य राजधर्मा स्वमालयम्
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः
स भाण्डोपस्करो यातस्तत्तदा शबरालयम्
तत्रासौ शबरीगेहे प्रसूतो निरयोपमे
एष शापो महांस्तत्र प्रसूतो मुक्तस्सुरगणैस्तथा
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः
इन्द्रः-
ब्राह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन
ब्रह्माः-
यस्मात्त्वं नागतो द्रष्टुं मम नित्यामिमां सभाम्
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित्
आगमिष्यति ते वासं कदाचित्पापकर्मकृत्
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः
निहन्ता गौतमो मोक्षस्तदा भावीत्युवाच तम्
इन्द्रः-
तस्मादेव गतो लोकं ब्रह्मणः परमेष्ठिनः
स चापि निरयं प्राप्तो दुष्कृती कुलपांसनः
भीष्मः-
एतच्छ्रुत्वा महाद्वाक्यं तन्मध्ये नारदेरितम्
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम्
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृति
कुतः कृतघ्नस्य यशः कुतस्स्थानं कुतस्सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रध्रुङ्निरयं घोरं अनन्तं प्रतिपद्यते
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ
मित्रं तत्प्रभवते सर्वं मित्रमन्यदिति स्मृतम्
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते
सुलभो मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम्
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम्
सत्कारैस्स्वजनोपेतैः पूजयेत विचक्षणः
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः
यथावच्च सभामध्ये प्रज्ञा प्रोक्ता मयाऽनघ
मित्रदुहि कृतघ्ने च किं भूयश्श्रोतुमिच्छसि
वैशम्पायनः-
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय